________________
सरः] न्यायमतानुवादः अबाधितनैल्योपलम्भः आलोकाभावत्वसाधनायोगः 575
सर्वार्थसिद्धिः एव दृष्टान्त इति चेन्न; त्वत्पक्षे पक्षदृष्टान्तभेदाभावात् ; अस्मन्मते तु भावातिरिक्ताभावासिद्धेः । आलोकाभावे दिवाभीतादिचक्षुर्लाबैनीलैर्व्यभिचाराच्च । दृग्वैषम्यवत् दृश्यवैषम्यं च व्यवस्थापकं स्यादित्युक्तम् । अतोऽस्मदादिविशेषणेऽप्यनिस्तारः । तमोधर्मभूतनैल्यादिदृष्टान्तस्तु तदभावसाधने विरुद्धः । आरोपितनैल्यादिदृष्टान्तस्तु शुक्तिरूप्यशशशृङ्गादिवदनादेयः । अनारोपितं तु सत्येवालोके चक्षुषा गृह्यते । तथापि भ्रान्तिदशायां गृह्यमाणारोपाभावेऽपि चाक्षुषभ्रान्तिविषयत्वादेवाय हेतुस्सिद्ध इति चेन्न; तमसि नैल्यारोपसिद्धिमन्तरेणास्य हेतोरनुत्थानात् । भवति हि बाधादृष्टान्तलाभः! तेन च मिथस्संश्रयः। अस्पर्शत्वादिबाधकान्तरं तु निरस्तम् । अत्र नीलमित्येवेत्य
आनन्ददायिनी पक्षभिन्नस्यैव दृष्टान्तत्वादिति भावः। अस्मन्मत इति । तथा च चाक्षुष द्रव्यस्य रूपवत्त्वात् तस्यैव तमसोऽन्यस्य वा दृष्टान्तत्वादि(त्यर्थः)ति भावः । अ(त)तोऽस्मदादीति-असयालोके(आलोकाभावेपि)अस्मदादिचक्षुर्ग्राह्यत्वादित्युक्तेरि(त्युक्तेपी)त्यर्थः । दृष्ट(ष्टि) वैषम्यानुरोधेनेव दृश्यवैषम्यानुसारेणाऽपि सङ्कोचसम्भवादिति भावः । तमोनैल्यमसदेव किंचित् ? उत सदेव ? नाद्य इत्याह-आरोपितेति । तथात्वे अतिप्रसङ्ग इति भावः । न द्वितीय इत्याह -अनारोपितं त्विति । तथाचासिद्धयसाधारण्ये इति भावः । ननु बाधाभावेऽपि तमः प्रतीतौ विषयस्य रूपस्य नी(ल)रूपत्वाद्दष्टान्तत्वसम्भवान्नोक्तदोष इति चेन्न ? तथात्वे प्रत्यक्षस्य बलवत्तया बाधप्रसङ्गात् । ननु तमो न रूपवत् अस्पर्शत्वादित्यादिना बाधात् न मिथस्संश्रय इति तत्राह-अस्पर्शत्वादीति । इन्द्रनील