________________
सर: तेजोमात्रत्वायोगः शास्त्रविरोधः तेजसन्चो नानावः तथा वसाधनायोगश्च 565
तत्वमुक्ताकलापः हाटकाद्याः। ताहत्त्वेऽपि स्फुरत्ताद्यनितरसलभं किञ्चिदन्वीक्ष्य तज्ज्ञैः व्याख्यातं तैजसत्वं विधित
सर्वार्थसिद्धिः मित्यत्राह-तादृक्तेऽपीति । स्फुरत्तादि-तेजस्समानं वर्णविशेष स्वतश्शुद्धत्वं चेत्यर्थः । तज्ज्ञैः–तथाभूतवेदिभिः । व्याख्यातंविशेषतः प्रकथितम् । किमर्थमित्यत्र तेजससमाख्यातेषु विधिनिषेधसाधारण्यसोकर्यार्थमित्याह-विधीति । ननु सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामत्यन्तावलुप्तद्रवत्वं दृष्टम् । न तथा हेमादो! ततस्तेषामपार्थिवत्वम् ? मैवम् ; एवमपि तोयान्यत्वस्य दुस्साधत्वात् । द्रवत्वविशेषात्तैजसत्वसाधने च न कश्चिदृष्टान्तः ।
आनन्ददायिनी धर्मशास्त्रव्यवहारो न स्यादित्यर्थः । तथात्वे इति–पार्थिवत्वे इत्यर्थः । विधिनिषेधति---' तैजसं शोधकैश्शुद्धम् ' ' आयसातैजसं शस्तम् । 'भुञ्जीत तैजसे पात्रे एक एव श्रियं लभेत् । 'तैजसं शुध्यते नित्यम्' इति विधिः । 'न हरेत्तैजसं विद्वान् । तैजसं न यते(गुहे)ाह्यम् ' ' न यतिस्तैजसे प्रात्रे' इत्यादिनिषेधः ! ननु स्वर्णं न पार्थिवं अत्यन्तानलसंयोगे सत्यप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात् व्यतिरेकेण सर्पिर्जत्वादिवत् इत्यनुमानात् पार्थिवत्वं बाधितमित्याशङ्कते-नन्विति । सुवर्ण नाप्यं नैमित्तिकद्रवत्वाधिकरणत्वात् जतुवत् इति जलभेदे रूपवतः परिशेषात्तैजसत्वमिति चेत् । तत्राह-द्रवत्वविशेषादिति । ननु द्रवत्वविशेषाज्जलभेदमात्रं साध्यते ; परिशेषात्तैजसत्वं सिद्धमिति चेत् ; तत्राह