________________
566
सव्याख्यसार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः दितरयोस्तन्त्रसौकर्यसिद्धयै ॥ ५९॥
सर्वार्थसिद्धिः पाकजद्रवत्वेन पार्थिवत्वसाधने तु सर्पिराद्यस्ति । अलुप्तद्रवत्वं च हेमादेस्तदुपष्टम्भकपार्थिवांशेऽप्यस्ति; अन्यथा तत्र तदानीं काठिन्यानुवृत्तिप्रसङ्गात् । अतः पक्षविपक्षमात्रवृत्तित्वाद्विरुद्धता ।
अवान्तरविशेषाच नातज्जातीयता भवेत् । अतिप्रसङ्गसाम्राज्यात् अशेषापह्नवेन वा ॥
आनन्ददायिनी पाकजद्रवत्वेति । नैमित्तिकद्रवत्वेन पार्थिवत्त्रं साध्यते । नन्वनुच्छिद्यमानद्रवत्वाधिकरणत्वादपार्थिवत्वमिति चेत् ; तत्राह---अलुप्तेति । उपष्टम्भके पृथिव्यंशे विपक्षे पक्षे स्वर्ण च तव मते वृत्तेविरुद्धत्वमपीत्याहअत इति । अयं भावः ---अनुच्छिद्यमानद्रवत्वं चास्यासिद्धम् सुवर्णभस्मादिदर्शनात् । अनुच्छिद्यमानद्रवत्वेऽपि पर्थिवत्वे न किञ्चिद्बाधकम् । स्वेच्छाकल्पितभेदमात्रादपार्थिवत्वे द्रवत्वात्तैजसत्वमपि न स्यात् । यदि तेजो विशेषस्य द्रवत्वं कल्प्यते तदा लाघवादष्टगुणत्वनैमित्तिकद्रवत्वपीतरूपाद्यनुरोधात् पार्थिवविशेषस्यानुच्छिद्यमानद्रवत्वामभ्युपगन्तव्यम् । ननु पृथिवीत्वेन संप्रतिपन्नजत्वादिविलक्षणानुच्छिद्यमानद्रवत्वरूपधर्माधिकरणत्वात्पृथिवीभेद इत्यत्राह-अवान्तरेति । गुरुत्वादिभिः पृथिवीत्वे सिद्धे तद्विशेषत्वादुक्तधर्मस्य ततोऽतज्जातीयता पृथिव्यतिरिक्तजातीयता न भवेत्-न साधयितुं शक्येत्यर्थः । तत्र हेतुमाह- अतिप्रसङ्गेति । सर्पिर्जत्वादावप्येवं प्रसङ्गात् सर्वस्यापि किञ्चिद्विशेषत्वात् सर्वस्य सर्वबहि वे सामान्यविशेषभावो न स्यादिति न निर्विशेष सामान्यमिति