________________
561
सव्याख्यसवाथासाद्धसाहततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः धिकम् । तच्च स्वतः पृथिव्या एव । 'काठिन्यवान् यो विभर्ति' इत्यादिदर्शनात् । गुरुत्वं च तेषुतेषु भूयिष्ठम् । तेजोमाने त न तत्प्रसङ्गः । जले तु सदप्येतन्नैवं क्वचिदतिशयितम् । नचाप्यत्वं तेषामिच्छसि ! तदिह पञ्चीकृतारब्धव्यष्टिप्रपञ्चे हेमादिषु पार्थिवाम्शः प्रभूत इति निश्चीयते । 'कथमन्यथा निष्के तु सत्यवचनम् ' इत्यादि निरूह्येत ? तथात्वे तैजसत्वस्मरणं कथ
आनन्ददायिनी ननु काठिन्यं करकादौ व्यभिचारीति तत्राह-तच्चेति । करकादावौपाधिकमिति स्वाभाविकं काठिन्यं हेतुरित्यर्थः । पृथिव्याः स्वाभाविकतद्वत्त्वे वैष्णववचनं प्रमाणयति' काठिन्यवान् यो बिभर्ति' इति कठिनपृथिवीशरीरकत्वेन भगवतः काठिन्यवत्त्वमिति भावः । किञ्च सुवर्णादि तैजसं न गुरुत्वाधिकरणत्वात् यत्तैजसं न तद्गुरुत्वाधिकरणमिति परिशेषात्पार्थिवत्वमित्याह-गुरुत्वं च तेष्विति । ननु परिशेषात्कथं पार्थिवत्वम् ? जलस्यापि गुरुत्वात् ; इत्याशङ्कय समानपरिमाणानां (जलानां न) तारतम्यवद्रुत्वाश्रयत्वमित्येवम्भूतगुरुत्वं पृथिव्या एव ; अन्यथा समानपरिमाणजलान्तरन्यूनाधिकगुरुत्वाधिकरणं न भवति । यथा तुल्यपरिमाणजलद्वयमिति । किञ्च स्वर्णस्याप्यत्वं तव सिद्धान्तविरुद्ध(त्वत्वमपसिद्धान्तावह)मित्याह-न चाप्यत्वमिति । ननु सिद्धान्ते हेमांदस्तजोंऽशसंवलनमङ्गीक्रियते ; (एवञ्च कथं तैजसत्वनिषेधः? इत्यत्राह-तदिह पञ्चीकृतेति-यद्यपि तेजोऽशोअप विद्यत एव ; तथापि घटादिभ्योऽभिमतपार्थित्वेभ्यो न वैलक्षण्यमित्यर्थः । कथमन्यथेतिसर्वात्मना तैजसत्वे प्रभादाविव निष्कादिव्यवहारप्रयोजकगुरुत्वाभावात् 'निष्के तु सत्यवचनं वाच्यं नापहवः कार्योऽधिकदोषात् ; इत्यादि