SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ सरः] प्रभातेजस्त्वसाधकहेतुदोषोद्धारः प्रभाप्रतिहतिपरपभाप्यस्य परक्षानुकूलता 567 तत्वमुक्ताकलापः यदुक्तं तेन स्रोतस्समाधिं परमतनयतः प्राहुरेके सर्वार्थसिद्धिः पलम्भश्वाभाष्यत । प्रतिबिम्बनिरूपणे च नयनरश्मीनां दपणे प्रतिहतिरुक्ता; तदेतत् प्रभाप्रभावतां सहोत्पत्तिनाशपक्षे नोपपद्यते । दृश्यते च रत्नप्रभादेरपि प्रतिघातकसन्निधो संकोचः तदपगमे विकासश्च । अतः पाञ्चभौतिकस्य रत्नादेः पार्थिवाद्यंशेन दृढावस्थितस्यापि तेजोंऽशेन गन्धादिन्यायवता विशरणप्रसरणादिकं युज्यते । आतपवारणादिवृत्तान्तश्च वर्षवारणादिन्यायात् किरणगतितत्प्रतिघातावनुमापयति । निवृत्ते चातपे क्षितिजलयोरौष्ण्योपलम्भात् तेजोऽशविशरणसंक्रमणे गम्यते । आनन्ददायिनी तीत्येके । आक्षेपसङ्गतिरित्येके । प्रसङ्गसङ्गतिरित्यपरे । तदेतदितिदीपस्य प्रतिक्षणविनाशात् तेन सह प्रभाया अपि नाशात् सप्रभस्योत्पत्तिपक्षे बहुलीभावपरावृत्त्योरसम्भवादित्यर्थः । स्थिर(दृढ)तररत्नादिस्थले अवयवविशरणाभावात् प्रभा न स्या(न स्यात् तत्र विशीर्णावयवासम्भवा)दित्यत्राह-भौतिकस्येति । यथा स्थिरतरगन्धद्रव्यस्य सर्वत्र गन्धोपलम्भेनावयवविशरणं ; तथाऽत्रापि विशीर्णतेत्यर्थः किरणगतीतिआतपादिगतीत्यर्थः । सहोत्पन्नत्वपक्षे युगपदेव तावद्देशव्याप्यु(व्यापितयो)त्पत्तिमतो गतिमत्त्वाभावात् गतिप्रतिबन्धकत्वलक्षणातपवारणादिव्यपदेशो न स्यादिति भावः । निवृत्ते चेति-सहोत्पत्तिविनाशपक्षे विशीर्णतेजोऽवयवसंक्रमणाभावादौष्ण्योपलम्भानुपपत्तिरिति भावः। विशीर्णपक्षे आश्रयाश्रयिभावाभावात् सजातीयस्य धर्मधर्मिभावे प्रभाश्रय
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy