________________
566
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः भाष्ये भास्वत्प्रभादौ प्रतिहतिबहुलीभावपूर्व
सर्वार्थसिद्धिः न्तरवैषम्यव्यक्तयर्थः। तिमिरहरत्वं चात्र भास्वररूपविशिष्टतया: न तेजस्त्वमात्रेण, अतो न साध्याविशेषशङ्का । एवं नीरसत्वे सति रूपवत्त्वादित्यपि हेतुः ॥५६॥
प्रभायाः प्रभावदवयवातिरेकतेजस्त्वे.
----
-
अत्र ग्रन्थान्तरसिद्धमतान्तरमाह-भाष्ये इति । करतलेनाहिमकररश्मीनां गतिप्रतिहतिः तथै(तयै)व तत्र बहलतया स्फुटो
आनन्ददायिनी तिमिरहरत्वात् । तज्ज्ञाने च सिद्धसाधनं तदज्ञाने च साध्याविशेष इत्यत्राह-तिमिरहरत्वमिति । तैजसत्वसाधकमनुमानान्तरमप्याहनीरसत्व इति । प्रभा तेजः नीरसत्वे सति रूपवत्त्वात् दीपवदिति प्रयोगः । रूपादौ जलादौ च व्याभिचारवारणाय विशेषणविशेष्ये ॥५६॥
प्रभायाः प्रभावदवयवातिरेकतेजस्त्वे.
ननु प्रथमसूत्रभाष्ये वचित् 'प्रभाप्रभावव्दयगुणभूता' इत्यारभ्य ‘अतस्सप्रभाका एव दीपा भवितुमर्हन्ति' इति विशीर्णपक्षनिराकरणं दृश्यते । क्वचित् करतले रश्मीनां गलिप्रतिहतिः तथै(त2)व तत्र स्फुटोपलम्भश्च । तथा च क्वचिन्नयनरश्मीनां दर्पणे प्रतिहतानां परावृत्तिश्च । तेन विशीर्णानामवयवानामेव प्रभात्वमिति गम्यते। तथा च भाष्यग्रन्थविरोधद्वयं परिहरन् स्वोक्तस्यैतद्भाष्यविरोधं परिहरति-अत्रे