SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ सरः] प्रभायाएक्यवाधकपरिहारः, तस्याः वीणदीपावयवत्वानरासः, तेजस्वंच 565 तत्वमुक्ताकलापः च स्यात् तेजस्तत्सप्रभाकं तिमिरहरतया साऽपि तेजोविशेषः ।। ५६ : सर्वार्थसिद्धिः प्रत्यभिज्ञाविषयप्रधानोदाहरणतया प्रसिद्धेपु स्थिरतरेषु रत्नादिपु प्रतिक्षणविनाशोऽवयवविशरणं च न कल्पयितुं शक्यम् । अतस्तए त्वदुक्तप्रकारेण प्रभोत्पत्तिकल्पनायागानिष्प्रभत्वप्रसङ्ग इत्यर्थः । परिशेषतः स्वाभिमतमाह--तेज इति । उक्तानुपपत्त्या दीपादितेजः प्रभाविशिष्टमेवोत्पद्यत इत्यर्थः । ननु प्रभाद्रव्यं न तत्वपतौ गण्यते; तहहिर्भावश्चापसिद्धान्तः; अन्तभावश्च न वायुपर्यन्तेषु रूपवत्त्वात् । न तोयपृथिव्योः; रसगन्धादिरहितत्वात् । न तेजसि; तद्धर्मतयाऽभ्युपगमात् । अतो विशीर्णतेजोऽतिरिक्ता प्रभा नास्तीत्यत्राह-तिमिरहरतयेति । तिमिरहरत्वं तेजस्त्वमात्रे हेतुः । विशेषशब्दस्तु प्रतीतिसिद्धावा आनन्ददायिनी इति शास्त्रम् । नन्विति—अतिरिक्तत्वानुपपत्तौ उ(त्वमनभ्युपेत्यो)क्तान्तर्भावस्य वक्तव्यत्वे प्रकारान्तरेणान्तर्भावस्य वक्तुमशक्यत्वा(र्भावस्यानुमतत्वा)दिति भावः । अवान्तरवैषम्यं—प्रभात्वम् । ननु प्रभा तेजो भवितुमर्हति तिमिरहरत्वात् दपिवदित्यत्र साध्याविशेष इत्यत्राह-तिमिरहरत्वमिति । भास्वररूपविशिष्टतयेति-प्रकृत्यादित्वात् स्वार्थे तृतीया । तथाच भास्वररूपविशिष्टत्वात्तेजस्त्वमित्यर्थः । यद्वा तिमिरहरत्वात्तैजसमित्यत्र तैजसत्वाज्ञाने तिमिरहरत्वज्ञानं न संभवति तेजस्त्वेनैव
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy