________________
564
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः बहुलविरलता(द्य)तत्र दृष्टानुसाराल सा दीपांशा विशीर्णा इति यदि बहुधा कल्पनागौरवादिः । रत्नादीनां स्थिराणां विशरणविहतेर्निष्प्रभत्वादि
सर्वार्थासिद्धिः बहुलत्वविरलत्वोष्णत्वानुष्णत्वाद्युपलम्भस्तत्तद्वस्त्वन्तरेष्विव -- क्यबाधक इत्यभिप्रायेणाह-बहलेति । अन्यथा स्थूलपूलत्वादिना दीपादिष्वपि नैक्यं सिध्येदिति भावः । अवयवविशरणवादमनूद्य प्रतिवक्ति-सेति । विशरणाक्रिया तत्स्वभावानां वेगवतां तेजोऽवयवानामनुपशान्तवेगानामेव संभूय किञ्चिदुद्गमनेन दीपाद्यवयव्यारम्भणं घनीभूतानामनन्तरक्षणे विशरणं ऊर्ध्वगमनशीलानां च तेषां तत्तदंशतश्च तिर्यगूर्ध्वमधश्च प्रसरणं तादृशप्रसरणहेतुवैचित्र्यं बहुलविरलत्वादिसिद्धयै केषां चिद्वेगातिशयः इत्याद्यनुपलब्धविविधार्थकल्पनागौरवं प्रसज्य(ज्येत)ते । आदिशब्देन सर्वलोकापलम्भशास्त्रविरोधसंग्रहः । बाधकान्तरमाह-रत्नादीनामिति।
आनन्ददायिनी तदभावयोरिवाविरोधान्नैकत्वबाधकतेति भावः । यद्यवच्छेदभेदेन विरोधपरिहारो न स्यात् ; तदा बाधकमाह - अन्यथेति । विशरणं-विशीर्णता । गौरवमुपपादयति--विशरणक्रियेत्यादिना । बहलाविरलत्वादीति-- दीपसामप्येि बहलत्वं दूरे विरलता । तसिद्धिश्च सर्वावयवानां तुल्यवेगत्वे न स्यादित्यर्थः । . प्रभा भासयते (चार्थान् ) सर्वान् यथैका दीपसंश्रिता ।