________________
568
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः प्रभायाम् । वस्तुन्यस्ते विक(ल्पे)ल्पैः स्फुटविघटनयोक्तुराप्तस्य वाचोस्तात्पर्य तर्कमानानुगुणमधिगुणैश्चिन्त्यमन्ते वसद्भिः ॥५७॥
__ सर्वार्थसिद्धिः प्रभातद्वतोराश्रयाश्रयित्वादिभाषणं तु परसंमत्यैव तन्मतनिदर्शनम् । प्रभा हि प्रदीपादिना सह जनिध्वसिनीति केचित् । तथा हि-सांख्या इन्द्रियवृत्तिनिदशेनतया आहुः
दीपप्रभा यथा तस्मिन् विनश्यति विनश्यति ।
तथा बहिर्गताऽप्येषा मूलच्छेदाद्विनश्यति ॥ इति। ननु विरुद्धभाषणादुभयं त्यक्ता सौगत(गती)गतिरिह संग्राह्येत्यत्राह-वस्तुनीति । न तावदिह सिद्धे वस्तुनि विकल्पः। न च वाक्ययोरैकार्थ्यं क्लिष्टगत्या कल्प्यं ; विरोधस्फोव्यात । आप्त
___आनन्ददायिनी दापनिदर्शनं भाष्यस्थंवि रुद्धयेतेत्यत्राह-प्रभातद्वतोरिति । यद्यप्ययमपि ग्रन्थो भाष्यस्थः सप्रभोत्पत्तिग्रन्थतुल्य इति न विरोधोऽत्र परिहार्यः ; परपक्षानुसारेण परिहारस्तु सप्रभग्रन्थेऽपि समः ; तथा ऽपि अयं ग्रन्थो निदर्शनार्थो यथावत्स्वीकार्योऽन्यथा सजातीयधर्मर्मिभावो न सिद्धयेदिति यथाश्रुतार्थमभिप्रेत्य समाहितामति ध्येयम् । केचिदित्युक्तानां ग्रन्थमुदाहरति- दीपप्रभेति । सौगतगतिः---क्षणिकपुञ्जद्वयपक्षः । यद्यप्यस्मिन् (सहजनिप्रध्वंस)पक्षे बहुलीभावपरा(वप्रतिनिविष्ट)वृत्त्यादि. गतिमत्त्वं न सम्भवति ; तस्य कथंचिन्निर्वाहे सप्रभपक्ष एव श्रेयान्