SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ 560 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः हङ्करणविकृतिता लक्षणं तद्धि तेषाम् ॥ ५४॥ सर्वार्थसिद्धिः परोक्तलक्षणानुपपत्तरित्यभिप्रायेणाह-लक्षणमिति । यत्तु शरीरयोगे सत्येव साक्षात्यमितिसाधनं इन्द्रियमिति ; अत्र कर्मेन्द्रियेवव्याप्तिस्तावदास्ताम् ! स्वेदादिशैत्याभिव्यञ्जकव्यजनवातादेरुक्तलक्षणयोगादतिव्याप्तिर्दुवारा । शरीरसंयुक्तमतीन्द्रियमिति विशेषणेऽपि चाक्षुषतेजःकणानां चूर्णविक्षेपवद्विसपे मूलस्कन्धस्य प्रमितिसाध(क)नत्वाभावात् अग्रस्कन्धस्य शरीरसंयुक्तत्वायोगात् नोभयत्राप्येतद्विशिष्टमिन्द्रियलक्षणमस्ति । परम्परया संवन्धस्त्व आनन्ददायिनी यावत्। तस्य प्रयोगादर्शनं तुल्यमित्यर्थः। तथा च स्वरूपासिद्धिः; लक्षणया तदुद्धारै देहेऽपि सम इति भावः । ननु प्रमितिसाधनत्वमिन्द्रियत्वम् ; तच्च प्राणेऽप्यस्त्येव ;/ प्राणस्याप्यन्वयव्यतिरेकाभ्यां मनोवत्साधनवादित्याह-परोक्तेति । नोभयत्रापीति-मूलाग्रस्कन्धयोः शरीरसंयुक्तस्य विषयसंयुक्तस्य चैकेस्याभावादित्यर्थः । यत्प्रमितिकरणं विषयसंयुक्तोऽग्रभागः तत्त्वं)परम्परया शरीरसंयुक्तमित्यत्राह-परम्परयेति । स्व(स्पर्श)प्रत्यक्षहेतुसंबन्धघटकवाय्वादौ व्यणुकपरिमाणप्रत्यक्षहेत्ववयवसंयोगद्ध्यणुकादौ अतिव्याप्तमित्यर्थः । ननु साक्षाच्छरीरयोग एव विवक्षितः ; स च मूलस्कन्धस्यास्त्येव । नच तस्य प्रमितिसाधनत्वाभावः ! अग्रद्वारा साधनत्वादिति चेत् ; उच्यते-अग्रभागस्य प्रमितिजनकत्वस्यावश्यकत्वे तज्जनकस्यान्यथासिद्धत्वान्न तस्य साधकत्वं मानाभावाच्च न
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy