________________
सरः]प्राणस्येन्द्रियसहपाठशब्देश्योपकरणत्वैरिन्द्रियवासिद्धिःस्वमतेइन्द्रियलक्षणम् 559
तत्वमुक्ताकलापः न च प्राणताक्षेषु मुख्या।देहस्यानक्षभावेऽप्युपकृतिरधिका तत्समाक्ष्योक्त्यदृष्टिः न प्राणे सात्विका
सर्वार्थसिद्धिः क्वचिन्मुख्यः क्वचिद्भाक्तः। एवमप्येकशब्दप्रयोगमात्रात्साजात्ये वैजात्यमेव जगति लुप्यतेत्यभिप्रायेणाह-नचेति । क्षेत्रज्ञोपकरणत्वस्य व्यभिचारमाह-देहस्येति । क्षेत्रज्ञोपकारकत्वं देहे (भूयसा) संदृश्यते ; न तत्रेन्द्रियत्वमिष्यते । इन्द्रियशब्दप्रयोगाभावात्तत्रानिन्द्रियत्वमित्यत्राह-तत्समेति । इन्द्रियत्वोक्तरदर्शनं देहे प्राणेऽपि समम् ; अतः प्राणोजप नेन्द्रियामित्यर्थः । इन्द्रियलक्षणनिवृत्त्या च प्राणे तच्छब्दवाच्यत्वनिवृत्तिरित्यभिप्रायेणाहन प्राणे इति । सात्विकाहङ्कारोपादानकत्वमेवेन्द्रियलक्षणम् ;
आनन्ददायिनी व्याभिचार इत्यर्थः। द्वितीये आह-अत्र च प्राणशब्द इति । तथा(चा) सिद्धिरिति भावः । तृतीयं दूषयति-एवमपीति । अत्र च सा. जात्यं शब्दप्रवृत्तिनिमित्तमादाय वाच्यम् ; अन्यथा प्रमेयत्वादिना सर्वेषां साजात्यात्सिद्धसाधनात् ; तथाच सर्वशब्दानां सर्वत्र यया कयाच(न)वृत्त्या प्रयोगसंभवात् तत्तत्प्रवृत्तिनिमित्तधर्ममादाय सर्वस्यापि सर्वशब्दप्रवृत्तिनिमित्तधर्मवत्त्वे वैजात्यमुच्छिद्येत । उच्छिद्येत च पदानां वृत्त्यन्तर(लक्षणादिक)मित्यर्थः । प्राणस्येन्द्रियत्व किं क्षेत्रज्ञोपकत्वं हेतुः? उतेन्द्रियशब्दप्रयोगसाहितमिति विकल्प मनसि कृत्वा आy दूषयति क्षेत्रज्ञोपकारकत्वमिति । द्वितीयं दूषयति-इन्द्रियत्वोक्ते - रिति । इन्द्रियत्वस्योक्तिः-इन्द्रियत्वप्रतिपादकवाक्-इन्द्रियशब्द इति