________________
558
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः प्राणोऽक्षं प्राणशब्दादुपकरणतया क्षेत्रिणश्चेत्ययुक्तम् शब्दैक्यं किजात्यं व्यभिचरति
सर्वार्थसिद्धिः अत्र कश्चिदाह-'प्राणसंवादादिष्विन्द्रियैस्सह प्राणः पठितः। प्राणशब्दश्च साधारणः प्रयुक्तः । चेतनो (क्षेत्रज्ञो) पकरणत्वं च समानम् । अतः प्राण इन्द्रियमिति' । एतदनूद्य परिहरतिप्राण इति । सहपाठमात्रं न तज्जातीयत्वसाधकमित्यभिप्रायः । प्राणशब्दवाच्यत्वं नेन्द्रियत्वसाधकमित्याह-शब्दैक्यमिति । अन्यथा अनेकार्थशब्दलोपप्रसङ्ग इति भावः । अत्र च प्राणशब्दः
आनन्ददायिनी प्रसङ्गसंगत्याऽऽह-अत्र कश्चिदिति । प्राणसंवादो नाम छान्दोग्ये प्रकरणविशेषः, तत्प्रायपाठात्तज्जातीयत्वमित्यर्थः । प्राणशब्दश्च साधारण इति–इन्द्रियाणां प्राणस्य च प्राणशब्दवाच्यत्वे इन्द्रियत्वमेव प्रवृत्तिनिमित्तं लाधवात् । तथाच समानवृत्तिनिमित्तकैकशब्दवाच्यत्वात्तज्जातीयत्वमित्यर्थः । किंच-प्राणादय इन्द्रियाणि चेतनोपकरणत्वात् चक्षुरादिवत् इत्यभिप्रायेणाह-चेतनोपकरणत्वं चेति । सहपाठमात्रमिति-सहपाठमात्रस्य प्रत्युत भेदकत्वमेव; अन्यथा वैयर्थ्यादितिभावः। अग्रयप्रायनयश्च सहपाठप्रयोजकधर्मातिरिक्तधर्मेण साजात्यप्रयोजको न तु तद्धर्मेणापीति भावः । एकशब्दप्रयोगविषयत्वमपि मुख्यवृत्त्या प्रयोगविषयत्वं विवक्षितम् ? उतैकशक्तया ? उत प्रयोगविषयत्वमात्रम् ? इति विकल्प्य आये दूषणमाह-अन्यथेति । अक्षादिपदप्रयोगविषयेषु