________________
सरः प्राणस्य देहेोपादानातिरेकः, देहान्तवर्तिबहूपकारकवायुविशेषत्वं श्रुतितात्पर्यच557
तत्वमुक्ताकलापः कन्यायतः प्राप्य कञ्चित् देहान्तर्दाशविध्यं भजति बहुविधोपक्रियो वृत्तिभेदैः ॥ ५३॥
सर्वार्थसिद्धिः दाशविध्यं प्राणा(पाना)दिभेदैर्नागकूर्मादिभेदैश्च दशविधत्वम् । तत्तद्वृत्तिभिरुपकारप्रपञ्चस्तत्तदागमेषु ग्राह्यः । अयं चार्थो ‘न वायुक्रिये पृथगुपदेशात्' इत्यधिकरणसिद्धः । 'आपो मयः प्राणः' इति तु 'अन्नमयं हि सोम्य मनस्तेजोमयी वाक्' इतिवदाप्यायनपरम् । अन्यथा अनेकशास्त्रविरोधात् ॥५३॥
प्राणस्य वायुविशेषत्वम्.
आनन्ददायिनी घनस्य-मेघस्य जलं घनजलं । दाशविध्यं-दशविधत्वम् । गुणवचनत्वात् प्यञ् । प्राणादीति-अपानोदानव्यानसमाना आदिशब्दार्थः । प्राणःप्रागननवान् हृदयवर्ती । आसनादिस्थानवर्ती अपानः अवागननशीलः । पायुस्थानो व्यानः विषवत्संचारी सर्वशरीरव्यापकः । उदान: कण्ठस्थानः । उत्क्रमणवायुस्समानः शरीरमध्यग(रावयवनाभिस्थानः) शीतपित्तादिसमीकरणपरः । नागकूर्मादिभेदैश्चेति–' कृकलदेवदत्तधनञ्जया आदिशब्दार्थः । नागः-उद्गिरणकरः । कूर्म उन्मीलनहेतुः । कृकलः क्षुधासाधनः । देवदत्तो जृम्भणहेतुः । धनञ्जयः पोषणकरः' इति योगरहस्ये शास्त्रे उपयोग उक्त इत्यर्थः । सूत्रकार एवामुमर्थ निर्णीतवानित्याह--अयं चार्थ इति । नन्वविशेषः प्राणस्स्यात् ; तथा श्रुतेरित्यत्राह-आपोमय इति । प्रत्यक्षविरोधाभावे तदुपादानकत्वविवक्षायामाह-अन्यथेति ॥ प्राणस्य वायुविशेषत्वम्.
35*