________________
556
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जिडद्रव्य
तत्वमुक्ताकलापः वायुतानुज्झनाच। तस्माद्वातो विशेष घनजलकर
सर्वार्थसिद्धिः 'पृथिव्या ओषधय' इत्यादिषु तत्प्रसङ्गात् । प्राणे च वायुत्वं न निवृत्तम् । अतश्च न. तत्वान्तरमित्याह-वायुतानुज्झनाचेति। तथाऽपि देहोपादानत्वावस्थापनो वायुः प्राणस्स्यात् ; किमधिककल्पनयेत्यत्राह-तस्मादिति । अयं भावः-'यावद(य)स्मिन् शरीरे प्राणो वसति तावदायुः'
अहं वैश्वानरो भूत्वा प्राणिनां देहमास्थितः ।
प्राणापानसमायुक्तः पचामि . . . ॥' . इत्यादिषु देहात्पृथक्तेन प्राणवायुः प्रसिद्धः; अतो न देहोपादानवायुरसौ; किं तु योगाद्युपयुक्तशास्त्रवेद्यविशेषवान् कश्चिद्वायुरयमिति । वायुत्वानुवृत्तिव्यक्तयै जलमयकरकानिदर्शनम् ।
आनन्ददायिनी हेतुमाह-~-पृथिव्या ओषधय इति । यावद्विकाराणां परिगणनासम्भवात् परिगणननिमित्तं किञ्चित्प्रयोजकं वाच्यम् ; तच्च पूर्वतत्वपरिगणननिमित्तासाधारणधर्मनिवृत्तिपूर्वकरूपान्तरं परिगणननिमित्तमाश्रयणीयमिति प्राणे स्वोपादान(गत)वायुत्वापरित्यागान्न तत्वान्तरतेत्यर्थः । तथापीति–तावता प्राणे वायुत्वप्रतीतिसहप्रयोगयोरुपपत्तेरि(त्यर्थः) ति भावः । तस्मादित्यादिना देहोपादानावस्थाविशिष्टाद्भेदाप्रतिपत्तेराह-अयं भाव इति । किन्त्विति-कुण्डल्यादियोगाद्युपयुक्तशास्त्रवेद्यवायुतिरोधिसाधन (वेद्यवायुनिरोधस्थान) विशेषवानित्यर्थः ।