________________
सरः ]
प्राणस्यवायुक्क्रियाविशेषत्वतत्वान्तरत्वयोर्निरासः
555
तत्व मुक्ताकलापः न क्रिया द्रव्यतोक्तेः तेजोवद्वा न तत्वान्तरमगणनतो
सर्वार्थसिद्धिः
प्रयोजनमान्यात् । अस्तु तर्हि वायोः क्रियाविशेषः प्राणः ? स्तिमितवायौ प्राणशब्दप्रयोगाभावात् उच्छासादौ प्रयोगाच्चेत्यत्राह - न क्रियेति । हेतुमाह - द्रव्यतोक्तरिति । वायुर्द्रव्यमि (ति) त्येतावत्सिद्धम् । प्राणे च तदुक्तिस्सार्वत्रिकी । प्राणस्स्पन्दत इति च पृथग्व्यपदिशन्ति । उक्तश्च सह पाठो न तत्क्रियायाः ; अग्रथप्रायनयविरोधात् । न च मनः प्रभृतीनां क्रिया तैस्सहात्र पठ्यते ! इति भावः । यद्यसौ वायुविकारविशेषः ; वह्निरिव तत्वान्तरं स्यादित्यत्राह तेजोवदिति । यदि तत्वपङ्क्तौ निविष्टः प्राणः ; भूतान्तरवत् पृथक्संख्यायेत ; न ह्येवमसौ इत्याह—–अगणनत इति । तत्वपरिगणनं च पूर्वपूर्वनियतस्वभाव परित्यागेन विकारान्तरसृष्टौ ; न तु विकारमात्रे ; आनन्ददायिनी
प्राणे वायुशब्दप्रयोगानुपपत्तिः; उपचारादुपपत्तेरिति शङ्कते -- अस्तु तर्हांीँति । द्रव्यतोक्तिः– द्रव्यवाचकवायुशब्देनोक्तिरित्यर्थः । क्रियात्वे अनन्यथासिद्धहेत्वभावेन वायुव्यपदेशस्य औपचारिकत्वाभावादिति भावः । द्रव्यत्वे सौत्रमाह-प्राणस्स्पन्दत इति । सौत्रोपदेशशब्दस्वारस्याद्विवक्षितहेतुमाह-उक्तश्चेति । यद्यसाविति - वायुविकारत्वाविशेषादिति भावः । ननु तर्ह्यस्य वायुविकारत्वे ' चतुर्विंशा प्रकृतिः पञ्चविंश आत्मा' इत्यादिपरिगणनमयुक्तं अधिकस्य सत्त्वादित्यत्राह तत्वपरिगणनं चेति ।
/
SARVARTHA.
35