________________
सरः] दिक्तत्वक्षेपवायुतालप्रतिवन्दिनिरासः पाणिनीयव्यवहारोपपत्तिश्च 535
तत्वमुक्ताकलापः कालवद्वा न भेदः कण्ठोक्तो व्याक्रियादिव्यव
सर्वार्थसिद्धिः स्पर्शशब्दधृतिकम्पलिङ्गैस्सिद्धिरिति वदामः! येन तेषामन्यथासिद्धिरुच्येत ; किंतु तेषु तेषु शास्त्रेषु तत्वपती परिगणनात् ; नैवं दिक्तत्वं गण्यत इति । अ(तः)त्र कालप्रतिवन्दि निस्तरतिकालवद्वेति । अस्ति हि 'रूपान्तरं तद्विज! कालसंज्ञम्' इत्यादि। ननु 'दिग्देशकालेवस्तातिः' इत्यादिषु देशाद्भिन्ना दिक् कालवत् शास्त्रेषु व्यवहियते इत्यत्राह-व्याक्रियेति । प्रमाणसिद्धदिक्तत्वानुसारेण त(त्त)त्कार्यविशेषविधायिनां शास्त्राणां तत्स्वरूपनिष्कर्षे तात्पर्याभावान ततस्तद्विशिष्टसिद्धिरित्याशयः । अथ स्यात् । 'प्राणाद्वायुरजायत' इत्यादौ वायवादितत्वैस्सह दिशः पृथक् सृष्टिरुच्यते; अतस्तद्वदिशोऽपि तत्वान्तरत्वं स्यात् ; एवं
आनन्ददायिनी दपि तत्सिद्धिरिति भावः । ननु 'आत्मन आकाशः' इति तत्वपतो कालस्या (काला) परिगणनात् तत्सिद्धिरपि न स्यादिति प्रतिबन्दि परिहरति--अत्र कालप्रतिबन्दिमिति । ननु 'रूपान्तरं तविज कालसंज्ञम् । इति पौराणिकभेदव्यवहारवत् (व्याकरण) 'दिक्छब्देभ्यस्सप्तमीपञ्चमीप्रथमाभ्यो दिनदेशकालेष्वस्तातिः' इति दिशोऽपि भेदेन व्याकरणव्यवहारात् तत्सिद्धिरपि स्यादित्याशक्कते-नन्विति । प्रमाणसिद्धेति-दिशस्तत्वान्तरत्वाभावेऽपि क्लप्ततत्वविषयकदिग्व्यव हारमादायाप्यस्तातिविधानसंभवान्न ततोऽतिरिक्तदिक्सिद्धिरिति भावः ।