________________
536
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
www
तत्वमुक्ताकलापः हरणमपि धन्यथैवोपपन्नम् । श्रोत्रादुक्तस्तु लोकप्रभृतिवदुदयस्तस्य तत्राप्ययो वा नैतावत्तत्वभेद
सर्वार्थासद्धिः 'दिशः श्रोत्रम्' इति तद्वदप्ययोऽपि श्रूयते इत्यत्राह-श्रोत्रादिति। लोकप्रभृतिवदिति प्रतिबन्दिवचनम् । अत्र हि ‘नाभ्या आसीदन्तरिक्षम्' इत्यादिभिर्न तत्वसृष्टिश्श्श्रूयते ; किंतु ब्राह्मणक्षत्रिय वैश्यशूद्र)चन्द्रसूर्यादिव्यष्टिसृष्टिप्रकरणे अन्तरिक्षस्वर्गादि(लोक)कल्पनम् । अतो दिक्सृष्टिरपि व्यष्टिविषया न तत्वान्तरं कल्पयितुं शक्रुयादित्याह-नैतावदिति । अथापि दिशश्श्रोत्रोपात्त(स्य)व्यष्टिविशेषत्वं स्यादित्यत्राह-न चेति । श्रौत्रतां-श्रोत्रोपादानकतामित्यर्थः। न हि इन्द्रियाणि कस्यचिदुपादानानीति प्रागेवोक्तम् । गत्यभावादत्र विशेषः कल्प्यतामित्यत्राह-आन्यपर्यादिति । अत्र हि धिगुपाधीनां तत्तद्देवतानां वा भगवतः श्रोत्रात् चन्द्रादे
आनन्ददायिनी अथापीति–उक्तानन्तर्गतत्वात् अर्था (तत्वा) न्तरं स्यादित्यर्थः । दिगुपाधीनामिति-सूर्यादीनां चक्षुरादिजन्यतया तत्प्रमाणगम्यत्वऽपि न तेषां तेजःप्रभृत्यतिरिक्ततत्वान्तरत्वं ; तथाऽत्रापीति भावः । नन प्रमेयसंग्रहे 'गगनस्य दिशां च त्रिवृत्करणेन रूपवत्वं; अतश्चाक्षुषं सर्वम्' इति दिशः पृथग्गणनमस्ति । तथा वरदविष्णुमिरैः'द्रव्यं च षड्डिशतिविधम्-सत्वरजस्तमासीत्यारभ्य दिग्द्रव्यं पृथगेव संख्यातम् । आकाशकालदिशश्चक्षुरिन्द्रियेणेति चाक्षुषत्वं चोक्तम् ।