________________
534
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ता कलापे
[जडद्रव्य
तत्वमुक्ताकलापः सङ्ख्यानं तत्वपङ्क्तौ क्वचिदपि न दिशः ;
सर्वार्थसिद्धिः
द्यतिरिक्तं कल्पयामः ! किन्त्वागमिकमभ्युपेमः ; अतो न तस्यासिद्धिरिति भावः ॥ ४९ ॥
यदि पृथक्तेन लोकवेदप्रसिद्धा दिगपहूयेत; तथा वायुरपि अस्य हि उपलभ्यमानः स्पर्शः उष्णशीतोऽनुष्णाशीतो वा ? त्रेधाऽपि न छान्दोग्याधीततेजोऽवन्नातिरेकस्सिध्येत् । तिर्यक्पवनमप्यदृष्टवशात्तेषामेव स्यात् । शब्दधृतिकम्पैरपि नातिरिक्तमनुमातव्यं; तैरेव तत्संभवात् । वातोपनीतततद्भूतान्तरावयवन्यायादनुद्भूतरूपतया दुर्दर्शत्वं स्यादित्यत्राह - सङ्ख्यानमिति । अयं भावः - न हि वयमप्रत्यक्षस्य वायोः आनन्ददायिनी
व्योमतरतेत्यर्थः ॥ ४९ ॥
आक्षेपसंगतिमाह —– यदि पृथक्त्वेनेति । उष्ण इत्यादिउष्णतया शीततया अनुष्णाशीततयोपलभ्यमान इ (इती) त्यर्थः 1 छान्दोग्याची (धिगत इति - - ' हन्ताहमिमास्तिस्रो देवता ' इति छान्दोग्यार्धातपृथिव्यप्तेजोऽतिरेकेण न सिध्येदित्यर्थः । ननु पृथिव्यादिविलक्षणधर्मवत्त्वादतिरिक्तस्सिध्येदित्यत्राह - तिर्यक्पवनमिति । ननु पृथिव्याद्यन्यतमत्वे रूपवत्त्वापत्तिरित्यत्राह — भूतान्तरेति । वायू ( वातो) पनीतगन्धावयवतप्तवारिंगतवह्न्याद्यवयववदनुद्भूतरूपवत्त्वसंभवादित्यर्थः । ननु दिशस्तत्वपक्तिपरिगणनाभावो दिक्सिद्धिबाघको न तु वायुसाधक इत्यत्राह - अयं भाव इति । 'आकाशाद्वायुः' इति तत्वपरिगणना