________________
सरः] अन्यथासिद्धिसमर्थनं अस्य पक्षद्वयतोल्यं स्वपक्षेलाघवं प्रतिवन्दिनिरासश्च 533
तत्वमुक्ताकलापः तव तदितरता स्यात्तु काले (समाना) स्वमानात् ॥४९
सर्वार्थसिद्धिः नातिप्रसङ्गः अयस्कान्तादिवत्तनियमात् । यन्निवन्धनस्त्वतिप्रसङ्गः स सिद्ध कल्प्येऽपि समसमाधिः । एवं स्थिते वरमुभयकल्पनादेककल्पनम् । ननु शक्तिरपि कल्प्यमाना न निराधारा कल्प्यते ; तस्मात् साधारशक्तिकल्पने शक्तिविशिष्टाधारकल्पने वा समं गौरवम् ! तन्न; यद्यपि शक्तितद्वन्तौ मिथोऽवच्छिन्नौ तथापि सिद्धांशस्य कल्प्यत्वायोगादसिद्धांशनियतैव क्लप्तिरिति विशेषसिद्धिस्स्यादिति भावः । नन्वेवं वियदादेरेव सूर्यपरिस्पन्दायु(न्दप्रकर्षाद्यु) पनायकत्वसम्भवात्तदन्यः कालो न सिध्येदित्यत्राह-तदितरतेति । न हि वयं परत्वादिलिङ्गैराकाशा
आनन्ददायिनी वतु तदतिरिक्तमानेन वा धर्म (मि) क्लप्तिरस्तु तत्रान्वयव्यतिरेकएव नियामकः; अन्यथा धर्मिग्राहकस्यैवासिद्धया धर्मिण एवासिद्धिप्रसङ्गात् । तथा च क्लप्तेष्वेव शक्तिकल्पनानातिरिक्तदिक्सिद्धिरित्यर्थः । अयस्कान्तादिवदिति-यथाऽयस्कान्तेऽयःकर्षणशक्तिरेव नान्याकर्षणशक्तिरित्यर्थः । ननु धर्मिकल्पनमुभयत्रापि सममिति शङ्कते-नन्विति । साधारणस्य कल्प्यत्वे विशेषणांशेऽपि विशिष्टकल्पनायाः प्राप्तत्वादित्यर्थः । सिद्धांशस्येति-विशिष्टकल्पना हि विशेषणमपि व्याप्नोति ! नात्र विशिष्टकल्पना । विशेषणे धर्मिणि पाकादिना रूपन्यायेन विशेष्यभूतशक्तेः (शक्तिमात्रस्य) कल्पनमित्यर्थः । नन्वेवमिति--दिगादिवदित्यर्थः । तदितरता स्यात्तु काले समाना' इति मूलस्यायमर्थः-दिक्साम्याभावात्काले तदितरता