________________
532
सव्याख्यसर्वार्थसिद्धिसद्दिततत्वमुक्ताकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः अन्यस्मिन्नन्यधर्मान् घटयतु वियदाद्यत्र नातिप्रसक्तिः सिध्यत्कार्योपयुक्तोपनयननियमोपेततच्छक्तिक्लप्तेः । एवं ह्येवाधिकायामपि दिशि भवतोऽतिप्रसङ्गो निषेध्यो धर्मो धर्मी च कल्प्यौ सर्वार्थसिद्धिः
हरति — अन्यस्मिन्निति । हेतुमाह - सिद्धयदिति । यथा कलमबीजस्याङ्कुरजननशक्तिकल्पनेऽपि न कोद्रवाकुरजनकत्वं; दृश्यमानकार्यानुगुणकारणशक्तिकल्पनात् । तथा वियदादिष्वपि परत्वादिसिद्ध्युपयुक्तोपनायकतयैव तच्छक्तिक्लृप्तेरित्यर्थः । अत्र प्रतिबन्दिमभिप्रेत्याह -- एवं हीति । नन्वधिकाया दिशस्तावदर्थ (या) यैव धर्मिग्राहकेण सिद्धिः ; न तथा वियदादेः ; तत्स्वरूपस्यान्यतस्सिद्धत्वादिति चोद्यं विपरीतफलमित्यभिप्रायेणाह – धर्मीति । नावश्यं धर्मिग्राहकेणैव सर्वत्र शक्तिसिद्धिः ; गृहीतेष्वपि धार्मेषु तत्तत्कार्यदर्शनेन तन्नियतशक्तिक्लृप्तेः । अत एव आनन्ददायिनी
तत इति - अविशेषादिति भावः । यथा कलमेति — अन्यथा अङ्कुरजननशक्तिकल्पनाऽविशेषात् सर्वत्राङ्कुरजनकतापि स्यादिति भावः । अत्र प्रतिबन्दिमभिप्रेत्येति — अतिरिक्तदिक्परिकल्पनापक्षेऽपि तस्यान्यधर्मोपनायकत्वेऽतिप्रसङ्गस्समान इति प्रतिबन्दि (न्दी) मित्यर्थः । प्रतिबन्धाः परिहारमाशङ्कते -- नन्विति । विपरीत फलम् — अफलमित्यर्थः । तदेवोपपादयति नावश्यमिति । धर्मिग्राहकमानेन सघर्मक सिद्धिर्भ-.