SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ 530 सव्याख्यसवार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः परत्वापरत्वे। व्योमोत्तीर्णेऽपि देशे प्रभवतु तदुपा सर्वार्थसिद्धिः तैरेवोपाधिभिरुपहितं व्योमायेव परत्वादिसिद्धौ पर्याप्तम् । अधिकशब्देन कल्पनागौरवं सूच्यते । नन्वाकाशः परिच्छिन्न इति भवसिद्धान्तः । तथाच कथमाकाशरहितप्रदेशे दूरत्वादिक्लप्तिरित्यत्राह-व्योमेति । दूरत्वादिसिद्धयनुगुणोपाधिमाद्भर्महदादिभिस्तत्सिद्धिः स्यात् । व्योमोत्तीर्ण इत्यपलक्षणम् ; व्योमसंपृक्तद्रव्यादिभिरपि तदुपपत्तेः । अनियमेन बहूनां दिक्तकल्पने गौरवं स्यादिति चेन्नः असिद्धकल्पनादनेकैरपि सिद्धैरेव निर्वाहस्य लघुत्वात् । यद्येकमेव सर्वत्र दिग्व्यवहारकारणमिष्यते तदा सर्वव्यापिना सर्वहेतुभूतेन परमात्मनैव सर्व सिध्येत् । तस्यैव सन्तूपाधिभेदास्सहकारिणः; अथवा तत्तदुपाधयस्ताव । आनन्ददायिनी इत्यर्थः । अधिकशब्देन—मूलस्थाधिकशब्देन । व्योमसंपृक्तद्रव्यादिभिरिति-तत्संपृक्तप्रकृत्यादिभिरित्यर्थः । आदिशब्देन सत्वादीनां संग्रहः । नेति-व्योमादिसम्भवस्थले व्योमादि तदुत्तीर्णस्थले तदन्यदिति अनेककल्पने गौरवमित्यर्थः । असिद्धेति-असिद्धस्य धर्मिणः कल्पने गौरवमिति भावः । नन्वेकं दिग्व्यवहारनिमित्तमोषितव्यम् ; नानाभूतेप्वनुगतधर्माभावेनानुगतव्यवहारासम्भवादित्यत्राह-यद्येकमेवेति । तस्यैकत्वे कथं प्रागादिभेदः? इत्यत्राह--अथवेति । यद्वा दिगुपाधीनामेवावश्यकत्वादिग्व्यवहारहेतुत्वमस्तु न तदुपहितापेक्षेति पक्षान्तरमाहअथवेति । तेषामननुगतत्वेऽपि प्राच्यादिव्यवहाराणामननुगतत्वान्न
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy