________________
सरः
अतिरिक्तदिक्तत्वकल्पकतया पराभिमतानामन्यथासिद्धिः
529
तत्वमुक्ताकलापः दिभेदात् अस्यैवोपाधिभेदादधिकदिश इव स्तां
सवार्थसिद्धिः श्वाधिकेऽनधिकेऽपि समाना । अप्रत्यक्षायां च दिशि प्रत्यक्षरुपाधिभिरवच्छेदधीदुर्लभा । सूर्योदयादिविशेषितातपादिभिरेव प्रागादिधीव्यवहारसिद्धौ किं तदन्यकल्पनया ? शाखाचन्द्रनयाचातपादेः सूर्योदया(सूर्या) देश्च संवन्धर्धायुज्येत । उपहितस्य शब्दार्थत्वान्न दिक्शब्दस्य व्योमातपादिपर्यायता स्यात् । ननु साक्षात्संबन्धरहितसंयुक्तसंयोगभूयस्त्वाल्पत्वनिबन्धने दूरासन्नपरत्वापरत्वे तत्तत्संबन्धोपनायकव्यापक(सं)द्रव्ययोगमन्तरेण कथं स्यातामित्यत्राह-अस्यैवेति । न हि त्वया कल्प्यमानमपि दिक्तत्वं तदुपाधियोगमन्तरेण परत्वापरत्वे जनयेत; तथा सति
आनन्ददायिनी सूर्योदयास्तमयादितस्तद्भेदक्लप्तिरवर्जनीयेत्यर्थः । अप्रत्यक्षायामिति । देहाधवच्छिन्नेश्वरस्योपाधिप्रत्यक्षमात्रेण प्रत्यक्षा(क्षत्वा)दर्शनादिशोऽपि नोपाधिप्रत्यक्षमात्रेण प्रत्यक्षतेत्यतिरिक्तदिक्पक्षेऽपि प्रागादिप्रत्यक्षव्यवहार उपाधिमात्रविषय इति भावः । ननु आकाशस्याप्यस्मन्मते प्रत्यक्षतया कथं प्राच्यादिबुद्धरुपाध्यवच्छिन्नतद्विषयताऽस्त्वित्यत्राह-सूर्योदयादीति । शाखाचन्द्रेति । परम्परासम्बन्धधीरित्यर्थः । ननु व्योमादीनामेव दिक्ते व्योमादिशब्दानां दिक्शब्दपर्यायता स्यादित्यत्राह-उपहितेति । परोक्त(पराभिहित) दिक्साधकोपपत्तिमनूद्य परिहरति-नन्वित्यादिना । नहि त्वयेति । अतिप्रसङ्गादिति भावः । तथासतीति । उपाधिसापेक्षत्व
SARVARTHA.