SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ 520 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः भाव(साधिकरणभूत)धीरनिवा(रपरिहा)ो । खपुष्पवदावरणानामत्यन्तासत्त्वे तु शून्यवादश्शरणम् । वर्तमानेषु चावरणेषु तत्पध्वंसप्रागभावौ दुर्वचौ । तौ हि किमन्यत्र विद्यमानानां उताविद्यमानानाम् ? नाद्यः तेषां तदुभयायोगात् । न द्वितीयः; तत एव न हि शशे शृङ्गस्य नाशप्रागभावौ! तदिह सर्वावरणनाशादिकं दुर्वचम् ; असंभवात् । कतिपयावरणनाशादिकं चावरणदेशेऽप्यस्तीति आनन्ददायिनी त्यपेक्षा नास्त्येव ; तद्वदत्रापि स्यादित्यत्राह--खपुष्पवदिति । तथाच प्रतीयमानानामावरणानामत्यन्तासत्त्वे पदार्थमात्रस्यात्यन्तासत्ता स्यादिति आवरणानां सत्त्वं वाच्यमेव ; तथा च सत्प्रतियोगिकाभावप्रतीतौ अधिकरणनियम इति भावः । यद्यपि ख(ख)पुष्पं नास्ति श(शे)शशृङ्गं नास्तीति तत्रापि सत्प्रतियोगिकत्वमेव ; तथा अत्यन्तासत्त्वेऽपि तदभावप्रतीत्यभ्युपगमे अधिकरणधीनयत्यमस्त्येव ; तथाप्यभ्युपगम्योक्तमिति ध्येयम् । दुर्वचत्वमेवोपपादयति---तौ होति । अविद्यमानानांतुच्छानामित्यर्थः । तेषामिति–प्रतियोगिकाले ध्वंसप्रागभावयोर्विरोधादित्यर्थः । तत एवेति । अविद्यमानत्वादेवेत्यर्थः । अविद्यमानत्वं तुच्छत्वम् । प्रतियोगिनोऽसत्त्वेऽपि तौ भवेतामित्यत्राह-नहीति । शृङ्गस्यशशशृङ्गस्य । नन्वावरणन्यायेन तावभावौ (भावाभावौ)भवेतां विरोधाभावादित्याशङ्कय यत्किंचिदावरणाभावो नाकाशं, अपि तु यावदावरणाभावसमूहः ; अन्यथा कुड्यादावपि यत्किंचिदावरणाभावसत्त्वात्तद्धीप्रसङ्गात् । तथा च यत्किंचिदावरणस्य सर्वकालेऽपि सत्त्वेन(विद्यमानतया) तद्धंसप्रागभावासम्भवात्तद्धटितयावदभावासंभव इत्याह-तदिहेति ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy