________________
सरः] आवरणतादात्म्याभावत्वनिरासः, असिद्धप्रतियोगिक विकल्यदूषणादि 521
तत्वमुक्ताकलापः तादात्म्याभावसिद्धिः कथमपि न भवेत्तमर्थ विहाय !! ४६ ॥
सर्वार्थसिद्धिः तत्रापि निष्क्रमणादिप्रसङ्गः। ननु संसर्गे तु विधिरकेनापि : तन्निषेधस्तु सर्वप्रतियोगिकः; तद्वदत्रापि सर्वावरणानाचे व्योमधीः स्यात् । न; असंभवस्योक्तत्वात् । एवं सति च संसर्गाभाव एव नामान्तरेणोच्यते । तत्र च दत्तमेवोत्तरम् । अस्तु तयावरणतादात्म्याभावोऽसौ स्यात् । स ह्यसिद्धप्रतियोगिकतया स्वयमप्यसिद्धः । तदात्मनश्चाकाशस्य तुच्छत्वं युक्तमिति ; तत्राह-तादात्म्येति । चो दृष्यसमुच्चये। श्रुत्यादिविरोधरूपदूषणसमुच्चये वा। असिद्धप्रतियोगिकत्वमस्य क्वचिदपि तादात्म्यपदार्थाभावाद्वा, आवरणद्वयस्य तदभावाद्वा? नाद्यः; अभावप्रतियोगिकत्वेन तत्कल्पनस्यासिद्धिप्रसङ्गात् । न हि क्वचित्सि
आनन्ददायिनी आशयमविदित्वा शङ्कते–नन्विति । असंभवस्योक्तत्वादिति । सर्वेषां ध्वंसप्रागभावानामेकदैकत्र सत्त्वे सत्येकप्रतियोगिसंसर्गबोधादपि धीः स्यात् ; तदेव न संभवतीत्युक्तामत्यर्थः । एवं तीत्यन्ताभाव एवास्त्वित्राह-- एवं सति चेति । असिद्धप्रतियोगिकतयेति । प्रतियोग्यधिकरणयोस्तादात्म्यस्य तुच्छत्वात् तुच्छप्रतियोगिकाभावम्य तुच्छत्वादित्यर्थः । तदात्मनः- तादृशाभावात्मनः । दूष्यं-संसर्गाभावादि । श्रुत्यादीति । आकाशाद्वायुरित्यादिभिर्भावरूपत्वमित्यर्थः । अभावेति । प्रतियोगित्वधर्मस्य तद्वत्तित्वायोगादिति भावः । अन्यथा गगनसूने सौरभादिप्रसङ्गात् । तदेवोपपादयति-न हीति । असिद्धप्रतियोगिकत्व