________________
सरः] उपपत्त्यन्तरं, अभ्यासान्तरान्तनिरामः अभावान्तरत्वनिरासः 519
तत्वमुक्ताकलापः
अत्यन्ताभावनाशाव जननिरपि वा सत्सु तेष्वेव
न स्युः
सर्वार्थसिद्धिः
शेषेण: संसर्गाभावस्तावन्निरूप्यमाणः (संसर्गिनिरूप्य संसर्गप्रतियोगितया अधिकरणप्रतियोगिभृतसंसर्गिवोधाभावे कथं बुध्येत ? अत्यन्ताभावोऽपि संसर्गाभावभेद एव । यथा (च) अश्वे गोत्वस्य शशे वा शृङ्गस्य । तथाच अत्रावरणं नास्तीति साधिकरणा (णभूता)
आनन्ददायिनी
जकम् ; अपि तु सत्त्वमात्रम् ; तच्च भूतभाविनोरस्त्येव प्रामाणिकत्वात् । तथा च न त्वदभिमतासत्त्वारोपः कुत्रापि ; इयांस्तु विशेषः -- भूतभाव्यधिकरणकभ्रमो न प्रत्यक्षः ; किं तु व्याप्तयादिज्ञानमूल इति । निरूप्यमाणः -- ज्ञायमानः । संसर्गिनिरूप्यः --- सबन्धिनिरूप्यः । अधिकरणप्रतियोगीति – तत्प्रतीतिनियतप्रतीतिक इत्यर्थः । तथाच अधि - करणप्रतियोगिभिन्नो(प्रतियोगिनोः) यस्संसर्गः तत्प्रतियोगिकतया (तत्प्रतीतिपूर्वकतया) अभावप्रतीतेस्तद्बुद्ध्यभावेऽभावबुद्धिर्न स्यादित्यर्थः । केचित्तु — प्रतियोग्यधिकरणसंसर्गप्रतियोगिकत्वमेव संसर्गाभावस्य ; तेनैव विरोधात् । तत्प्रतियोगि कत्वमेव (तद्वलादेव ) घटादिप्रतियोगिकत्वमि (त्वव्यवहारइ)त्याहुः । सामान्यतो दूषणमुक्त्वा अत्यन्ताभावादिविकल्पमुखेन विशिष्य दूषणमाह — अत्यन्ताभावोऽपीति । तथाच आकाशस्यात्यन्ताभावत्वे इहाकाशे तारकेति निरधिकरणाकाशधीर्न स्यादित्यर्थः । ननु वपुष्पं नास्तीति खपुष्पाभावप्रतीतौ प्रतियोग्यधिकरणसंसर्गप्रती