________________
518
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः संसर्गाभावमात्रं ( भावतास्मिन् ) न च भवति यतो नास्ति संसर्गिबोधः ! |
सर्वार्थसिद्धिः
रोप्यते । एवमनभ्युपगमे वर्णक्रमनिर्देशवत्स्यात् । एतेन शशस्तीक्ष्णशृङ्गवानित्यपि निर्व्यू (रू) ढम् । भूतेषु भाविषु च कथं भ्रम इति चेत् ? कथं वर्तमानेषु ? तेषां सच्चादिति चेन्न ; स्वकाले (काल) सत्त्वस्य कालान्तरा (र) सत्त्वस्य च साधारणत्वादिति । आवरणाभावश्च सत्योऽसत्यो वा संसर्गाभावादिविभागं नातिक्रामेदिति मत्वा तत्र तत्र दूषणमाह-संसर्गेत्यादिना पद्य
आनन्ददायिनी
नैल्याद्यध्यासोऽनुपपन्नइति भावः । अन्यथाख्यातिमवलम्ब्य परिहार उक्तः ; इदानीमख्यातिपक्षमवलम्ब्याह -- एवमनभ्युपगमे इति । यथा नैरन्तर्येण प्रतीतिमात्रेण वर्णक्रमव्यवहारः ; तथा शशशृङ्गादीनां प्रत्येकं स्वरूपतः प्रतीतानां शशशृङ्गं तीक्ष्णमिति व्यवहारो नात्र विशिष्टतया कस्यचित् प्रतीतिरित्यर्थः । नच नभस्तत्त्वव्यवहारोऽपि तथाऽस्त्विति वाच्यम् ; असतः प्रतीत्यनर्हत्वात् । एतेन – असंसर्गाग्रहेणेत्यर्थः । ननु भूतभाविनोरसत्त्वात् तत्राध्यासो दृष्टान्तस्स्यादिति शङ्कते - भूतेष्विति । गूढाभिसन्धिः प्रतिबन्धा समाधत्ते कथमिति । अभिसन्धिमजानान आह— तेषामिति । अभिसन्धिमुद्घाटयति----स्वकालसत्त्वस्येति । आरोपसमकाले सत्त्वमसत्त्वं च नारोपतदभावयोः प्रयो..
1
1