________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
प्रसङ्गात् । उक्तं च न्यायभाष्ये - 'असच्चासदिति गृह्यमाणं तथाभूत ( तं विद्यमान ) मविपरीतं तत्वम्' इति । तुच्छतयैवोपलब्ध्या (ब्धस्या) पि निरस्तं निस्स्वभावत्वम् । तुच्छता ह्यभावप्रतियोगित्वं अभावत्वं वस्त्वन्तरशून्यत्वं अन्यद्वा किञ्चित् ? न प्रथमः ; स्वकालादिषु सतामभावप्रतियोगिनां यथाप्रमाणं ततत्स्वभावविशिष्टत्वात् । न द्वितीयः ; दत्तोत्तरत्वात् । न तृतीय: ; ईदृशतुच्छत्वस्य स्वरूपाविरोधिनः सर्वत्र सुलभत्वात् । न चतुर्थः ; अस्मन्मतविरोधिनस्त्वदिष्टस्य कस्यचित् कुत्रचिदत्रासिद्धेरिति । यत्तु — आवरणेष्वाकाशो नास्तीति ; तदसत् ; त्वदुक्तयुक्तयेव तत्सिद्धेः । अभित्त्वा दुर्दर्शत्वं हि व्यवआनन्ददायिनी
।
512
[जडद्रव्य
इति भावः । असच्चेति । अभावत्वेन गृह्यमाणं तथाभूतं अविपरीतं च तत्वं तादृशस्वभावं वस्तु न निस्स्वभावमित्यर्थः । तत्र किं तुच्छमेव निस्स्वभावत्वम् उत तदन्यन्निस्स्वभावत्वम् इति विकल्प प्रथमस्य सिद्धसाधनग्रासात् द्वितीयं विकल्प्य प्रथमं दूषयति न प्रथम इति । स्वकालादिषु तत्तत्स्वभाववदभावप्रतियोगिषु व्यभिचार इति भावः । दत्तोत्तरत्वादिति । अभावस्वभावतयैवेत्यनेनेत्यर्थः । ईदृशेति । सिद्धसाधनमिति भावः । न चतुर्थ इति । (तत्) किमस्मन्मताविरोधि उताविरोधि, इति विकल्पमभिप्रेत्य आधे तन्न बाधकमिति, द्वितीये (त्व) सिद्धिः, तादृशस्य त्वदिष्टस्य निस्स्वभावत्वसाधकस्य कस्यचित् तुच्छपदा ( शब्दा) व्यस्य कुतश्चिदपि प्रमाणादसिद्धेरित्यर्थः । यत्तु — आकाशस्यावरणाभावत्वसाधनार्थं उपलम्भानुपलम्भोप (सदनं) न्यसनम् ; तद्दूषयितुमनुभाषते --- यत्त्विति । तत्सिद्धिमेवोपपादयति — अभित्त्वेति । नन्वभावेाप
"