________________
सरः] तुच्छत्वस्वरूपनिरासः आवरणेष्वाकाशास्तित्वं तद्वियोन्यथासिद्धता च 513
सर्वार्थसिद्धिः
हितत्वात् । अत एव तत्र नास्तीति न निःश्राय्यम् धयम् । भित्वा तु प्रक्ष ( क्ष्यमा ) णे नभस्तत्र दृश्यत एव । नचात्रावरणाभावमात्रोपलम्भः ! इहावरणं नास्तीति साधिकरणस्य तस्योपलम्भात् । इहाकाश इतिवत् स्वात्मन्येव भेदोपचारात्स्यादिति चेन्न : बाधकाभावात् । अधिकरणानवस्थाप्रसङ्गो बाधक इति चेन्न : आनन्ददायिनी
दुर्दर्शत्वमुपपद्यत इति कथं तस्य साधन (क) त्वम् ? इत्यत्राह - अत एवेति । कुड्यादौ दुर्दर्शदशायामाकाशमत्रास्ति न वेति सन्देहस्य दर्शनादभावत्वे प्रतियोगिनिश्चयेन सन्देहो न स्यादिति भावः । तथा च आकाशो नावरणाभावः आवरणवत्तया निश्चयसमानकालीनतदधिकरणधर्मिकसंशयविषयत्वात् ; यत् यद्वत्तया निर्णयसमकालीनतदधिकरणसंशयविषयः स न तदभावः यथा रूपस्य रस इत्यनुमानमावरणाभावस्य आकाशाभावाद्वेदे प्रमाणमिति ध्येयम् । प्रत्यक्षमपि प्रमाणयति — नभस्तत्रेत्यादिना । अन्यथासिद्धिमाशङ्कते — इहाकाश इति । बाधकाभावादिति — अन्यथा भूतले घट इत्यादावुप (वप्युप) चारप्रसङ्ग इति भावः । अधिकरणानवस्थेति तथा सति आकाशस्याप्यधिकरणं तस्याप्यधिकरणान्तरं तस्यापीत्यनवस्थेत्यर्थः । ननु मास्तु साघिकरणतयोपलम्भनियमः; साधिकरणतयोपलम्भमात्रमधिकरणसाधकं स्यात् ; नच नियमोsपि साधककोटौ प्रविष्टोऽप्रयोजकत्वात्; अन्यथा घटादीनामप्यधिकरणासिद्धिप्रसङ्गात् इति चेत्; अत्राहुः — इहाकाश इति व्यपदेशमात्रमुपदेशमात्रादपि भवति ; नचावरणाभावादपि तथा; अभावस्याधिकरणसापेक्षत्वात् तत्र नोपचारः । किञ्चाभावप्रतीतावधिकरण
I
SARVARTHA.
33
-