SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ सरः चार्वाकाद्यर्भािहताया अभावनिस्स्वभावताया निराकरणम् 511 तत्वमुक्ताकलापः सद्रूपेणैव भानान्न (बोधान्न) भवति वरणाभावमात्रं विहायः सर्वार्थसिद्धिः वस्तुशून्यो विकल्पः' इति, 'एष वन्ध्यासुतो याति' इत्यादि च(षु)। अतो नास्त्येव नभ इति तत्राह-सद्रूपणेति । अयं भावः-सर्वं हि वस्तुजातं संविधवस्थाप्यम् ! संविद्यते च भावरूपतयैव नभः। भावान्तरमेवाभाव इति स्थापयिष्यते । अन्यथापि ब्रूमः-नाभावस्य निस्स्वभावता ; अभावस्वभावतयैव तत्सिद्धेः। स्वान्यस्वभावतया सिद्धिस्तु न कस्यापि । न च स्वेन स्वभावेन सिद्धस्य परस्वभावविरहादसत्त्वम् ! अति आनन्ददायिनी इति न्यायादिति भावः । तदुदाहरति-एष इति । आदिशब्देन 'शशशृङ्गधनुर्धरः' इत्यादिवाक्यशेषसंग्रहः । ननु न पश्लेषाभावमात्रेण सद्रूपेण प्रतीतावपि तलत्वादिवत् शशशृङ्गादिवच्च तुच्छता स्यादित्युक्तस्य नोत्तरमित्यत्राह-- अयं भाव इति । ननु भावरूपत्वाभवात्तद्रूपतया भानं भ्रम इति चेत् ; तत्राह-भावान्तरमिति । तथाच अभावत्वे (बुद्ध)ऽपि भावत्वबुद्धेर्न भ्रमत्वमिति भावः । अन्यथाऽ. पीति-भावादभावस्यान्यत्वेऽपीत्यर्थः । यदुक्तमाकाशस्यावरणाभावत्वानिस्स्वभावत्वमिति ; तदयुक्तमित्यत्राह-नाभावस्येति । नन्वभाव (स्वभाव)त्वेपि भावस्वभावत्वाभावान्निस्स्वभावतेति चेत् ; तत्राहस्वान्येति । घटादीनामपि स्वान्यपटादिस्वभावत्वाभावान्निस्स्वभावतापात
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy