________________
510
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
___ सर्वार्थसिद्धिः वत् मिथ्याजले मृगतृष्णिकादिशब्दवच्च व्यामोहैकनिबन्धना व्योमादिशब्दाः । अत्र न पश्लेषाभावादसद्रूपतातिरस्कारः। अत्र च तलत्वविपुलत्वमलिनत्वादिकमध्यासमन्तरेण न कथञ्चिदप्युपपद्यते । प्रतियोगिगतानां च स्मर्यमाणानां गृह्यमाणस्मिन्नध्यासः । अस्ति चा (असति चा) (नचा)सौ सिद्धः: दुःखाभावे सुखाभिमानात् आलोकाभावे नीलत्वबह (शब) लत्वाधध्यासस्य वैशेषिकादिभिरङ्गीकारात् शशशृङ्गं तीक्ष्णमित्यादिशब्दजन्याध्यासदृष्टश्च । वदन्ति च—'शब्दज्ञानानुपाती
आनन्ददायिनी तुच्छता ; घटाभावस्य तुच्छत्वाभावात् तुच्छत्वे च सप्रतियोगिकत्वायोगा (त्वाभावा)दिति चेन्न ; तन्मते चतुर्धातुव्यतिरिक्तस्य तुच्छत्वात् । आवरणाभावत्वाोक्तः तस्य भावत्वनिरा(निरासार्था)सपरा, न तु नैयायिकादिवत्पारमार्थिकाभावपरा । तुच्छत्वे च सप्रतियोगिकत्वमविरुद्धम् । असतोऽत्यन्ताभाव इति मते तुच्छस्याभावप्रतियोगित्ववत् केवलान्वय्यभाववच्चे(वदि)ति ध्येयम् । ननु तर्हि अभावरूपतया पदात्प्रतीतिरस्यादित्यत्राह- अत्रेति । सद्रूपताम्रान्ति. रित्यर्थः । नञ एवासत्त्वबोधकत्वादिति भावः । नन्वारोपे बाधनियमात् तदभावे कथमारोपरूपत्व(रूपवत्त्व)मित्यत्राह-तलत्वविपुलत्वादिकमिति । प्रत्यक्षबाधाभावेऽपि यौक्तिकबाधोऽस्त्येवेति भावः । नन्वभावे(नभसि) कथं भावधर्माध्यास इत्यत्राह-अस्ति चासाविति । वदन्तीति । बौद्धा इति शेषः । शब्दज्ञानानुपाती-शब्दज्ञानस्य शब्दश्रवणस्य आनुपाती अनन्तरभावी-वस्तुशून्यः---शून्यवस्तुविषयकः-विकल्पः सविकल्पक इत्यर्थः । 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि'