________________
सरः]सिद्धादीनां भूम्यादावुन्मज्जनोपपत्तिः, नभसः पराभिमतावरण। भावरूपतोक्तिश्च 509
तत्वमुक्ताकलापः
वाज्जल इव कथितो (कठिने) युज्यते मज्जनादिः ॥ ४५ सर्वार्थसिद्धिः
भूम्यादिषु प्रवेशप्रतिघात एव नास्तीति मन्यन्ते, काचादिषु नीरन्ध्रेषु नयनप्रभादेरिवेति ।। ४५ ।। अवकाशनिरूपणम्.
अत्र केचिच्चार्वाकास्सौगताश्च प्राहुः – ' चत्वार्येव भूतानि । आकाशस्त्वावरणाभा (व एव ) वः । स च निस्स्वभावः ; तुच्छतयैवोपलम्भात् । य (त्र चा ) त्रावरणं न तत्राकाशः ; अभित्त्वा दुर्दर्शत्वात् । भेदे त्वावरणाभावस्यैव सिद्धेः । यदि (च) तत्राकाशस्स्यात् निरवकाशं न किञ्चित्स्यात् । अतो घटतदभावन्यायादावरणेष्वसत्त्वादयमावरणाभावः । तदिह शून्यधातुसंज्ञिते च निस्तत्वेऽप्यावरणाभावे स्वपुष्पादिषु तत्तच्छब्द
f
आनन्ददायिनी
।
आक्षेपसंगतिं दर्शयति--अत्र केचिदिति । तुच्छतयेति । शून्यतयेत्यर्थः । आवरणाभावत्वे युक्तिमाह--यत्रावरणमिति । अभित्त्वेति । आवरणे सत्यनुपलम्भादावरणाभावस्यैवावकाशत्वादिति भावः । घटतदभावन्यायादिति । विरोधित्वादपि आकाशावरणयोर्भावाभावरूपतेत्यर्थः । नन्वाकाशस्य शून्यत्वे तत्राकाशादिशब्दानां व्युत्पत्तिग्रहो न स्यात् ; सर्वत्र सत्ये ( सत्य ए) व व्युत्पत्तिग्रह इत्यत्राह —–—तदिति । भ्रान्तिसिद्धेषु खपुष्पादिशब्दव्युत्पत्तिग्रहवत् भ्रान्तिसिद्धे तस्मिन् तच्छब्दस्य इत्यर्थः । नन्वारणाभावरूपत्वमेवाशङ्कितम् ; न च तथात्वे