SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ 502 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ता कलापे सर्वार्थसिद्धिः [जडद्रव्य पत्तेः; अन्यथा कथम(न्य)त्र त्वदुक्तमप्रत्यक्षत्वानुमानं जीवेत् । सर्वलोकप्रत्यक्षविरुद्धं च तत् । तथाऽपि तत्स्वीकारे बुद्धिव्यतिरिक्ततया बाह्यार्थस्सर्वोप्यप्रत्यक्ष इति वदन् सौत्रान्तिक एव समर्थस्स्यात् | तदेवं नीरूपस्यापि नभसश्चाक्षुषत्वं निर्व्याघातम् । भाष्ये त्वस्य पञ्चीकरणेन रूपवत्तया चाक्षुषत्वाविरोधवचनं आनन्ददायिनी { Į मपि, गौरवादिति भावः । प्रतिबन्दिमाह --- अन्यथेति । नन्वेवमपि म (त) - दुक्तानुमानेन प्रतिरुद्धत्वात् प्रत्यक्षत्वसिद्धिरपि न स्यादित्यत्राह - सर्वलोकेति । तथाच त्वदुक्तस्य बाधितत्वेन न्यूनबलत्वान्न प्रतिपक्षतेति भावः । ननु श्वैत्यानुमानात्पीत प्रत्यक्षबाधवत् सर्वेषामाकाशप्रतीतेरेव बाघोऽस्त्वित्यत्राह–तथाऽपीति । दोषमूलत्वनिर्णयात् पीतप्रत्यक्षं न्यूनबलम्, इह तु न तथा; तथाऽपि बाधोक्तौ सौत्रान्तिकपक्ष एवाङ्गीकर्तुं शक्य इत्यर्थः । ननु नभसो रूपवत्त्वं भाष्य उक्तं ; कथमत्र नीरूपत्वं सिद्धं कृत्वा प्रत्यक्षत्वसाधनम् ; अपसिद्धान्तात् इत्यत्राह--भाष्य इति । ननु कथं तस्य वैभवत्वमुक्तम् ; पञ्चीकरणेन रूपवत्त्वात् ? इति चेत्; अत्रोक्तं कैश्चित् – 'न चक्षुषा सन्मात्रं गृह्यते; तस्य रूपरूपरूपैकार्थसमवेतपदार्थग्राहित्वात्' इति भाष्ये साक्षाद्रपाश्रयस्यैव प्रत्यक्षत्वप्रतीतेः; अन्यथा संयुक्ताश्रयत्वादिसंबन्धेन सन्मात्र स्यापि रूपवत्त्वात् तद्भाष्यानुसाराद्वैभवत्वमिति । अन्येतु - वैभवात्स्यादित्यस्य युक्तिवैभवादित्यर्थः । न च संयुक्ताश्रयत्वसंबन्धेन रूपवतो ग्रहे आत्मादेरपि ग्रहप्रसङ्गः ; पञ्चीकरणसंबन्धेन तद्वत्त्वस्य प्रयोजकत्वात् । यद्वा -- पञ्चीकृतभूतव्य (सृष्ट्यादीनामेव (वा) तत्संबन्धेन तद्वत्त्वप्रयोजकत्वम् । अत एवान्यरूपमादाय शङ्खस्य पीतप्रत्यक्षविषयत्वम् । न च
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy