________________
सरः]नभसोबहिरिन्द्रियग्राह्यत्वासंभवशङ्कापरिहारः,भाप्योक्तनभोरूपवत्त्वनिर्वाहश्च 503
तत्वमुक्ताकलापः पञ्चीकारेण नैल्यं पटमलिनिमवद्भापितं वोपकुर्यात॥१७॥
सर्वार्थसिद्धिः वैभवात्स्यात् । यथा रूपरूपिरूपसमवेतरूपैकार्थसमवेतानां चाक्षुषत्वमविशिष्टमङ्गीक्रियते तथा रूपिद्रव्यसंवलितस्यापि कचित्स्यात् । न चातिप्रसङ्गः; समचर्चत्वात् । न हि रूपिद्रव्यं रूपैकार्थसमवेतं वा सर्वं चक्षुर्लाह्यम् ! योग्यतानियमस्य दुर्लङ्घत्वादिति; तदेतदभिप्रेत्याह–पञ्चीकारेणेति ॥४३॥
आकाशस्य प्रत्यक्षत्वम्.
आनन्ददायिनी वायोरपि चाक्षुषत्वप्रसङ्गः ; तन्निष्ठरूपस्यानुद्भूतत्वात् । उद्धृतरूपवत एव प्रत्यक्षत्वात् । नचैवमपि ‘अद्यजातस्य चक्षुरपि न ह्यरूपं वायु गृह्णाति' इति प्रमेयसंग्रहे रूपाभाववचनाद्विरोधः; तस्योद्भूतरूपाभाववत्परत्वादित्याहुः । ननु रूपशून्यम्यान्यरूपमादाय चाक्षुषत्वेऽतिप्रसङ्ग इत्यत्राह-यथेति । रूपसमवेतं रूपत्वादि । रूपैकार्थसमवेतं-परिमाणादि। समानचर्चत्वमेवाह --न हीति । यद्यन्यरूपसंवलितस्य कस्यचित् बाह्यप्रत्यक्षत्वमापाद्यते तदा रूपैकार्थसमवायात्परिमाणादेश्वाक्षुषत्ववत् रसगुरुत्वादेरपि चाक्षुषत्वं स्यादित्यतिप्रसङ्गापादनं समानम् , तत्समाधान च समानमित्यर्थः । योग्यतानियमस्य - प्रत्यक्षयोग्यतानियमस्य । दुर्लङ्घत्वात्-उभयाभ्युपेयत्वात् ।। ४३ ॥
आकाशस्य प्रत्यक्षत्वम्.