________________
सरः नभसोऽत्यक्षत्वसाधनखण्डनम्, प्रनिप्रयोगेण बहिरिन्द्रियग्राद्यत्वमाधनं च 50:
सर्वार्थसिद्धिः बाह्येन्द्रियग्राह्यं बाह्यत्वे सति अस्मदाद्यपरोक्षधीविषयत्वात् अविगीतवत् । नात्र हेतुरसिद्धः परिशेषप्राप्तः । न तावदत्रागमिकी नभःप्रतीतिः; तदनभिज्ञानामपि सम्भवात् । नाप्यानुमानिकी सिद्धेऽपि तदनुमाने अनधिगततादृशानुमानानां नमःप्रतीतः । तदेवमाकाशस्या(त्रा)नुमानादिविषयत्वायोगात् आवालपण्डितमनुभूयमानत्वाच्च तद्बुद्धिरपरोक्षेति सिद्धम् । ननु असिद्धस्य सिद्धस्य वा नभसः प्रत्यक्षत्वसाधनम् ? नाद्यः; अनुमानकथाबाह्यत्वात् । न द्वितीयः; अनुमानतस्तत्सिद्धेस्त्वदनभ्युपगमात् । प्रत्यक्षतस्तत्सिद्धरस्मदनभ्युपगमादिति । मैवम् ; उभयसंमतादागमतोऽपि तत्सि(ध्येत् )द्धेः । आस्तामागमः; पृथिव्याद्यतिरिक्तस्य नभ प्रतीतिविषयस्य कस्यचिदुभयसंमत्या पक्षीकारोप
आनन्ददायिनी वारणाय बाह्येति । हेतावप्यात्मादौ व्यभिचारवारणाय बाह्यत्वेति। परमाणौ व्यभिचारवारणाय - अस्मदादीति। पारिशेष्यमेवापपादयति-न तावदित्यादिना । नभःप्रतीतिरपरोक्षा स्मृत्यनुमितिशाब्दान्यत्वे सति प्रतीतित्वात् संप्रतिपन्नवत् इति परिशेषानुमानं द्रष्टव्यम् । ननु नभःप्रतीतिसिद्धौ तस्याः पारिशेप्यादापरोक्ष्यं सिध्येत् तदेव नास्ति)स्या एवासिद्धिः, इत्यत्राह-आबालेति । ननु नभसो बहिरिन्द्रिय(बहिः) प्रत्यक्षत्वसाधनं न संभभवती (वति आश्रयासिद्धेरि)त्याशङ्कते-नन्विति । आबालपण्डितमनुभूयमानत्वाच्चेति नभम्सि(संभवात्स)हेरुक्तत्वादियं शङ्का न युक्ता, तथाऽपि तत्सिद्धि(प्रमाण)निरूपणे उभयसिद्ध(संमत)प्रमाणसिद्धत्वाभावादाश्रयासिद्धिरिद्धिमाशङ्कत इ)ति द्रष्टव्यम् । आस्तामिति । उभयसंमतसिद्धिमत्त्वं पक्षताप्रयोजकम् ; न तु उभयसंमतप्रमाणसिद्धत्व