________________
500
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडंद्रव्य
तत्वमुक्ताकलापः अन्यत्त्वबाह्यम् । तस्मानाध्यक्षवेद्यं वियदिति यदि; न ; प्रत्ययस्यापरोक्ष्यात्
सर्वार्थसिद्धिः गुणाश्रयमपि नावगमयन्ति ; किं पुनद्रव्यान्तरमिति भावः । मानसप्रत्यक्षमिह दूरनिरस्तमित्याह-अन्यदिति। तुशब्दोऽत्रात्यन्तासम्भवपरः । अबाह्यम्-आत्मतद्धर्मव्यतिरिक्तेषु न स्वातन्त्र्येण प्रवर्तत इत्यर्थः । सङ्कलितमाह-तस्मादिति । अस्मदादीति विशेषणीयम् । चोद्यस्य दत्तोत्तरत्वाभिप्रायेण प्रतिवक्ति-नेति । अभिप्रेतं व्यनक्ति-प्रत्यस्येति । अयं भावःन रूपादिविरहाचाक्षुषत्वादिहानिः रूपादिप्रत्यक्ष(त्व)वत् यथादर्शनं व्यवस्थोपपत्तेः । प्रतिप्रयोगश्च–विगीतं अस्मदादि
आनन्ददायिनी वारणाय विशेषणविशेष्ये । एवमुत्तरत्रापि द्रष्टव्यम् । मनो न बाह्यग्राहक भवतीत्यभिप्रायेणाह-अबाह्यमिति । ननु मनसः सर्वज्ञानहेतुत्वात् कथं न बाह्यग्राहकत्वमित्यत्राह-स्वातन्त्रयेणेति । इन्द्रियान्तरादिसहकारितां विनेत्यर्थः । संकलितमिति--संगृहीत(मर्थ)मित्यर्थः । योगिप्रत्यक्षवेद्यत्वाद्वाध इत्यत्राह---अस्मदादीति । ननु प्रत्ययस्यापरोक्ष्यमसिद्धः इन्द्रियग्राह्यत्वसंदेहे हि तस्यापि संदेह एवेति चेत् ; तत्राह-- अयं भाव इति । विगीतमितियोगिबाह्येन्द्रियग्राह्यत्वेन (ह्यत्वमादाय) सिद्धसाधनवारणायास्मदादीति । अन्तरिन्द्रियग्राह्यत्वमादाय सिद्धसाधन