________________
सरः] विरलावस्थितद्रव्यादेर्नभस्त्वनिरासः, नभसि चाक्षुषोपलम्भान्तरकथनं च 497
तत्वमुक्ताकलापः कूपोऽसौ रन्ध्रमेतत् पतति खग इहेत्यादिधीश्चात्र मानम् ।
__सर्चार्थसिद्धिः असंयोगाविशेषे मध्यदेशाल्पत्वभूयस्त्वग्रहणमन्तरेण का गतिः ? दूरदूरतरादिस्थितिरिति चेत् । तथापि दूरासन्नदेशतया नभः प्रत्यक्षमेव । दिशस्तत्र देशत्वं स्यादिति चेन्न ; उपाध्यतिरोकिण्यामपि तस्यां प्रत्यक्षत्वस्य नभस्समानचर्चत्वात् । दीर्पण हस्वेन च स्प्रष्टुं योग्यत्वमेव दूरत्वमासन्नत्वं च ; अतो नात्र प्रदेशबुद्ध्यपेक्षेति चेन्न तयोस्तत्तत्स्वरूपत्वेऽतिप्रसङ्गात् । अतिरेके तु देशविशेषस्थित्युपलम्भमन्तरेण तदासद्धेः । अत्र चाक्षुषमेवोपलम्भान्तरमप्युदाहरंति-कूपोऽसाविति । कूपरन्ध्रादयो हि
आनन्ददायिनी अभावे भूयस्त्वाल्पत्वरूपतरतमभावानां स्वतोऽसंभवादिति भावः । ननु संयोगरहितावयवानां दूरदूरतरादिस्थितिरेव संयोगाभावे तारतम्यमिति शङ्कते-दूरदूरतरादीति । ननु दिगेव तत्र देशः स्यादित्याशङ्कतेदिश इति । तत्र किं दिगुपाघिरेव देशस्स्यात् उत तदतिरिक्ता दिगिति विकल्पमभिप्रेत्य तत्राद्ये वियति चन्द्रातपादिवैरल्ये पृथिव्यादीनामुपाधीनामसंभवाद्दिगुपार्दिशो न संभवतीति मत्वा द्वितीयं दूषयतिउपाध्यतिरेकिण्यामिति । रूपशून्यतया समानन्यायत्वादित्यर्थः । दीर्घेणेति-दण्डादिनेत्यर्थः । तयोरिति-तथाच देशविशेषज्ञानपूर्वकप्रतीत्या तदतिरिक्ततद्योग्यत्वेन किमिति भावः । नन्वावरणाSARVARTHA.
32