________________
496
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः अरुणं नम इत्यादिबुद्धेः । तत्राप्यरुणातपग्रहणमात्रमिति चेत; कस्तर्हि तत्र नभश्शब्दार्थः ? न ह्यनेकार्थोऽयं शब्दः; अनुवृत्तमनतिप्रसाङ्ग च निमित्तं दुर्लभम् । पृथिव्यूलत्वादेस्तथात्वाभावात् । चन्द्रिकादिविशेषानादरेण विरलावस्थितद्रव्यमानं नभ इति चेन्न; वियति विरला चन्द्रिकेत्यादिपृथग्व्यपदेशात् वैरल्यदर्शनमपि नभ प्रत्यक्षतामन्तरेण न घटते। तत्तन्मध्यप्रदेशानां तैस्तरस्पृष्टता हि विरलता। तथाच मध्यदेशभूतं नमः प्रत्यक्षम् । परस्परासंयोगमात्रं वैरल्यमिति चेन्न; भिन्नकालेषु गुणादिषु च विरलधीप्रसङ्गात् । वर्तमानानामासन्नदेशस्थानां द्रव्याणामसंयोगो विरलतेति चेन्न; चन्द्रिकादिष्वसंयुक्ततेजःकणानामासन्नदेशतया नभस एव ग्राह्यत्वात् । विरलविरलतरादि बुद्धौ
आनन्ददायिनी न ह्यनेकार्थोऽयमिति। नन्वेकप्रवृत्तिनिमित्तत्वे न नानार्थत्वदोष इत्यत्राहअनुवृत्तमिति । पृथिव्यूर्ध्वत्वादेरिति । पक्षितरण्यादिगतत्वेनातिप्रसक्तस्य प्रवृत्तिनिमित्तत्वायोगादित्यर्थः । ननु विरलसंस्थानश्चन्द्रिकावयवसङ्घो नभश्शब्दार्थः । वियति विरला चन्द्रिकोति प्रतीतिस्तु वने वृक्षप्रतीतिन्यायेन स्यादित्यत्राह-वैरल्यदर्शनमपीति । वैरल्यस्यैव नभश्शब्दार्थपर्यवसानादिति भावः । ननु संयोगाभाव एव वैरल्यमिति न (भावरूप) नभस्सापेक्षत्वमिति शङ्कते-परस्परेति । भिन्नकालेष्विति । तत्र संयोगाभावस्य सत्त्वादिति भावः । चन्द्रिकादिष्वपि तत्रासन्नदेशः पृथिव्यादिर्न भवतीति नभ एव स देशस्स्यादिति भावः । नन्वस्तु देशस्तत्र नभः; तथाऽपि तद्गाहो मास्त्वित्यत्राह-विरलविरलतरेति ।