________________
498
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः आधारोऽत्रातपादिर्यदि भवति कथं तस्य चेहेति बोधः ? तस्यांशैश्चेत् त्रयणौ तच्छिथिलगति
सर्वार्थसिद्धिः तत्तद्देशविशेषतया सर्वलोकप्रत्यक्षसिद्धाः । आवरणाभावमात्रं तु निरसिष्यते । पतत्रिणश्च पतनदेशतया नभः प्रत्यक्षयामः। तत्र इहप्रत्ययस्यान्यथासिद्धिमाशङ्कते-आधार इति । इहेति प्रतीयमानत्वमात्रमिहाधारत्वम् । परिहरति-कथमिति । इह नभस्यातपादिरिति व्यतिरेकनिर्देशात् नातपादिरिहशब्दार्थस्स्यादिति भावः । अत्रोदयनायुक्तमाशङ्कते-तस्यांशैरिति । आतपाद्यंशांस्तदाधारीकृत्येत्यर्थः । दूषयति-व्यणाविति । परैः त्र्यणुकानां अप्रत्यक्षम्यणुकाश्रिततत्वस्वीकारात् अंशैरिहप्रतीतिनिर्वाहस्तत्र कुण्ठित इत्यर्थः । माभूत्वांशैस्यणुकानामिहेति धीः, व्यणुकसमुदायमिहेति निर्दिश्य प्रत्येकं तदाधेयतयोपचर्यतामित्यत्र क्लिष्ट
आनन्ददायिनी भावमात्रत्वाद्रन्ध्रस्य न तत्प्रत्यक्षसाधकामित्यत्राह--आवरणाभावमात्रमिति । पतनदेशतयेति-इह विहगः पततीति पतनाधारतयेत्यर्थः । नन्वातपादेः कथमाघारत्वम् ? वैरल्यात् ; अन्यथा तत्र क्षिप्तपाषाणादेः पतनाभावप्रसङ्गात् इत्यत्राह–इहेति । कुण्ठित इति-द्वयणुकानामिहेति प्रत्यक्षविषयत्वासंभवादिति भावः । द्वयणुकसमुदायातपादिष्वाकाशव्यवहारादर्शनात् प्रत्युत भेदव्यवहारात् तत्र विशेषस्यादृष्टचरत्वात्