________________
सरः]
श्रोत्रवृत्तिकल्पनोपपत्तिः जननैयायिकमनयोनिरासश्च
487
तत्वमुक्ताकलापः दिग्भेदासन्नतादिग्रहणमपि तदा तत्र तत्सन्निधानात् ।
सर्वार्थसिद्धिः नापि शब्दस्यैवागमनम् ! वायैकेन्द्रियग्राह्यतया श्रुत्यादिभिश्च रूपादेरिवाद्रव्यस्य क्रियानुपपत्तेः । न च शब्दस्य तयञ्जकस्य वा वीचीतरङ्गकल्पना! अत्यन्तगौरवात् । न च व्याप्तं श्रोत्रम् ! युगपत्सार्वत्रिकशब्दोपलम्भप्रसङ्गात् । न च प्रतिनियतैः प्रदेशेश्शक्तम् ! नियामकाभावात् । श्रोत्रसमवायेन शब्दो गृह्यत इति पक्षस्तु इन्द्रियाणामभौतिकत्वस्थापनयाऽपास्तः । अतो यथोपलम्मं तत्तजन्तुषु स्ववृत्त्या तावद्देशव्याप्तं श्रोत्रं तत्तद्देशे शब्दं गृह्णातीति । एवमनभ्युपगमे दोषमभिप्रेत्याह-दिग्भेदेति । यदि श्रोत्रवृत्तिः तत्रतत्र न स्यात् कथं तद्विशिष्टश्शब्दो गृह्यते ?
आनन्ददायिनी भावः । न च शब्दस्य पुद्गलत्वमस्त्वित्याशङ्कयाह-नापति । शब्दो गुणः बाह्ये (बँके)न्द्रियग्राह्यजातिमत्त्वात् रूपादिवत् इत्यनुमानं द्रष्टव्यम् । आदिशब्देन पुराणादिग्रहः । न च शब्दस्येति-वीचीतरङ्गवदुपपत्तिकल्पनेत्यर्थः । ननु श्रोत्रम्य व्यापकस्यैवोत्पत्तिकल्पनास्त्वित्यत्राहनचेति । न च प्रतिनियतैरिति-कदाचित्कुत्रचित् शब्दग्रह इति नानादेशव्यवस्थया शब्दग्रहात् नियतप्रदेशशक्तिकल्पनमित्यर्थः । अन्यथा दूरस्थशब्दस्याग्रहणेन तत्र देशे शक्तयभावे तत्र गतेऽपि शब्दग्रहो न स्यादिति भावः । श्रोत्रसमवायेनेति–वैशेषिकपक्ष इत्यर्थः । भूत