________________
490
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः इत्येकेऽन्ये तु दूरान्तिकगतजनताशब्दधीकाल
सर्वार्थसिद्धिः न पत्र प्राच्यादिप्रतिनियतं लिङ्गं दृश्यते ! नापि दूरासन्नत्वनियतम् ! अतश्शब्दस्वरूप इव तदुत्पत्तिदेशविशेषेष्वपि श्रोत्रवृत्तेश्शाक्तः कार्यकल्प्या । आसत्तितारतम्यानुरोधेन विशदाविशदावभासश्च चक्षुर्वृत्तिनयेन नेतव्यः। अत्र पक्षान्तरं स्थापयितुं सांख्यानुसारिणां पक्षोऽयमिति निगमयति-इत्येके इति । बुद्धयन्तरानुगुणमतान्तरमाह-अन्ये त्विति । दूरस्थः ताड्यमानभेर्या दश (दूरस्थताड्यमानभेर्यादिदर्शी) कोणाभिघातात्पश्चात विलम्बन शब्दं शृणोति वादकास्तदासन्नाश्चाविलम्बितम् ; तदेतत् गन्धाश्रयद्रव्यविसर्पन्यायमन्तरेण कथं स्यात् ? अत एवानुवात
आनन्ददायिनी गुणस्य शब्दस्याहङ्कारिकेणेन्द्रियेण समवायायोगादित्यर्थः । श्रोत्रेणाग्रहणेऽप्यनुमानात्तद्गह इत्यत्राह -न ह्योति । दूरासन्नत्वनियतं-- दूरासन्नत्वव्याप्तम् । ननु श्रोत्रस्य वृत्त्यङ्गीकारेऽपि देशग्रहणासाम
र्थ्यात् कथं तत्तद्देशविशिष्टशब्दग्रहः ? इत्यत्राह–अत इति । प्रकारान्तरेण तद्विशिष्टप्रतीत्यनिर्वाहादिति भावः । ननु तत्तच्छब्ददेशव्यापिवृत्तिस्वीकारे दूरासन्नयोः शब्दग्रहतारतम्यानुपपत्तिरित्यत्राह - आसत्तितारतम्यानुरोधेनेति । ग्राह्यशब्दापेक्षया ग्राहकपुरुषस्येति शेषः । बुद्ध्यन्तरं-दूरासन्नयोःक्रमेण बुद्धिरित्यर्थः । बुद्धयन्तरमेवोपपादयति-दूरस्थस्ताड्यमानेति । गन्धाश्रयेति-तथाच शब्दाश्रयद्रव्यस्य श्रवणदेशविसर्पः कल्पयत इति भावः । अत एवेति-अतिदूरोऽप्यनुवाते