________________
सरः
रसेश्वरसिद्धान्तदूषणं स्वोक्तनिगमनं च
487
सर्वार्थसिद्धिः यनमहस्संभववाह्यालोकानुवृत्त्या दृश्यदर्शनानुवृत्तिस्स्यात् । अतः प्रागुक्तप्रकारैव प्राप्तिरिति ॥ ४० ॥
चक्षुरादेः प्राप्यकारित्वम्
भवतु चक्षुषस्तेजसाप्यायितत्वात् मणिप्रभान्यायेन काचिदृत्तिःश्रोत्रस्य तु आकाशाप्यायितस्य सा कथमित्यत्राह
आनन्ददायिनी खव्यापित्वाभावादभ्युपेततेजसा मुखग्रहणं न स्यादिति मावः । नन्वाभिमुख्येनोत्पन्नस्यापि दर्पणादिसन्निधौ परावृत्तिरस्त्विति चेत् न ; तथात्वे नयनवृत्त्यैवोपपत्तौ अतिरिक्तकल्पने गौरवप्रसङ्गात् । नच दूरासन्नार्थयुगपद्हणा(य)) तदभ्युपगमः ! तथाऽप्यवयव्यन्तरं विना स्वनयनतेजस्संवलितबाह्यतेजस एव ग्राहकत्वकल्पनोपपत्तेः । किं चान्धकारस्थपुरुषेण योजनदूरस्थालोकमध्यवर्तिपर्वतादिकं मध्ये च समीपस्थितालोकमध्यस्थमपि वस्तु युगपदेव गृह्यते । नच दूरासनपदार्थव्यापि किंचित्तेजोऽन्तरं जन्यते ! मध्येऽन्धकारस्थले बाह्यालोकाभावात् । क्रमेण दूरासन्नयोस्तेजसोर्द्वयोरुत्पत्तौ ऋमिकत्वेन यौगपद्यग्रहो न स्यात् । तत्र चेत् झाडित्यादिना समर्थनं तदा नयनवृत्तेरेवोपपत्तिरिति भावः ॥ ४० ॥
॥ चक्षुरादेः प्राप्यकारित्वम् ॥
अत्राप्याक्षेपसंगतिमाह-भवत्विति। आकाशाप्यायितस्येति