SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ 486 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः लितं तावत्प्रथिमानमवयविनमारभते । तेन च संबन्धादन्मिषितस्य दूरस्थग्रहणम् । दुरासन्नयोयुगपद्हणं च सिध्येदिति ; तदयुक्तम् ; निष्क्रमणकल्पनस्य गुरुत्वात् । अनिष्कान्तमेव किंनावयविनमार(भते)भेत? आन्तरनिष्क्रमणवद्वाह्यप्रवेशोपपत्तेः। अपि च अस्मिन् पक्षे त्रिभुवनविवरव्यापिना तेजसा सह चाक्षुषतेजस्संवलनात्तेन संबद्धं सर्वं युगपद्धासेत पश्चाद्भागाव(गादि)स्थितं च । अथ आर्जवावस्थानमपेक्षणीयमित्युच्येत; तदा अस्मयाप्तेस्सिद्धत्वात् । अन्यथा दर्पणतरङ्गादिसन्निधाने स्वमुखादिग्रहणं न स्यात् । किञ्च निमीलिताक्षस्यापि पानष्ट्यतन आनन्ददायिनी रूपं तेज इति विवक्षितं उत तत्संबन्धि ? इति विकल्पमभिप्रेत्याचं दूषयति-निष्क्रमणेति । चाक्षुषं चक्षुरेव । प्रज्ञादित्वात् स्वार्थिकोऽण् प्रत्ययः । गौरवमेवोपपादयति-अनिष्क्रान्तमेवेति । तद्देशाप्रविष्टस्य कथं तत्रारम्भकत्वम् ! इत्यत्राह--आन्तरेति । अन्तस्स्थस्य (विकारावस्थाशून्यस्य) तद्देशापरित्यागेन निष्क्रमणकल्पनायां निष्क्रमणं विनाऽपि बाह्यदेशप्रवेशोऽस्तु आन्तरदेशपरित्यागकल्पने चान्धतापत्तिरित्यर्थः। ननु भवतां वृत्तेरि (विवृत्तेरि)व चाक्षुषतेजःप्रभाया निर्ग. मने को दोषः ? इत्यत्रा (निर्गमने दोष इति द्वितीयं पक्षमाशङ्कया) हअपिचेति तदा अस्मद्व्याप्तेरिति--तथाच अस्मदुक्तप्राप्तेरावश्यकत्वा. तन्मत्रेणैव ग्रहणोपपत्तौ(वा)बाह्यतेजसासमामवयव्यन्तरं न कल्प्यमित्यर्थः । अस्मदुक्तप्राप्तेरावश्यकतामाह-अन्यथेति । आभिमुख्येन तेजोऽन्तरोत्पत्तावपि नयनवृत्तीनां परावृत्य प्राप्तयनभ्युपगमे स्वमु
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy