________________
478
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडव्य
सर्वार्थसिद्धिः वृत्तेस्तादृशवेगातिशयस्याविस्मयनीयतया पद्मपत्रशतवेधनीत्या योगपद्याभिमानोपपत्तेः। ननु सिद्धे गमने यौगपद्याभिमानक्लप्तिः; नात्र तत्सिध्यतीति चेन्न; स्वाभ्युपगतसाम्यात् । बुद्धिसंततेश्शरीरान्तरगमनं दीपालोकादिगमनं च दृष्टं कल्प्यं वा ? नाद्यः; त्वयाऽप्यनभ्युपगमात् । द्वितीये तु तथेहापि किं न स्यात् ? न देहान्तरादौ गतिः प्राप्तिर्वा; किंतु तत्र तत्र देशकालनैरन्तर्येणोत्पत्तिमात्रमिति चेत् । तथेहापि त्वया कल्प्यताम् ; अविशेषात् । ननु प्राप्तिः कल्प्या; तद
आनन्ददायिनी (तम्रहैक) (तदेकग्रहैक)त्वव्यवहारयोरुपपत्तेरिति भावः । स्वाभ्युपगतेति-क्षणिकत्ववादि(भिः)ना निरन्तरोत्पद्यमानशरीरक्षणेषु बुद्धिक्षणानामपि तत्तच्छरीरकाल एवोत्पद्यमानानां तत्तदुत्पत्तिकाल एव संबन्धाङ्गीकारादित्यर्थः । ननु तत्र प्रमाणसत्त्वादङ्गीकार इत्यत्राहबुद्धिसंततेरिति । त्वयाऽपीति । प्रत्यक्षरूपगमनाभ्युपगमादित्यर्थः । द्वितीये विति । इन्द्रियेष्वपि शीघ्रसंबन्धकल्पनासंभवादित्यर्थः । प्रतिबन्दि(बन्दीः) परिहरति-न देहान्तरादाविति । न बुद्धिसंततेदर्दीपालोकादेश्च देशान्तरे उत्पन्नस्य तत्तद्देश (देह)तत्तद्विषयप्राप्तिः, अपि तु तद्देश एवैकस्मिन् काले उत्पत्तिरित्यर्थः । तथेति-चक्षुरादिवृत्तेरपि तावहरव्यापिन्या नैरन्तर्येणोत्पत्तिरि(रस्त्वि)त्यर्थः । ननु बुद्धिसतानादिप्रतिबन्दिर(रधिका)युक्ता; तयोस्स्वप्रकाशप्रत्यक्षसिद्धत्वात्, चक्षुरादीनामतीन्द्रियतया तद्वत्तेः तद्व्यापार(तत्प्राप्ति) रूपसंयोगस्य च प्रथक्षत्वायोगादिति वैषम्यं शङ्कते-ननु प्रा(न्या)प्तिरिति । तथाच अनुपलम्भबाध इति