________________
सरः]
इन्द्रियाणां प्राप्यकारिवानुमानदृषणपरिहारः
477
सर्वार्थसिद्धिः नात्र कर्मेन्द्रियैरनैकान्त्यम् ; यथास्वं व्यापारेण स्पृष्टेग्राहिशब्देन विवक्षितत्वात् । तस्य च सर्वत्र प्राप्तविषयत्वात् । न च मनसा ; तस्यापि बाह्येन्द्रियद्वारा बहिर्विषयप्राप्तेः । यद्वा बाह्यज्ञानेन्द्रियत्वादिति मनःकर्मेन्द्रियव्यवच्छेदः। ननन्मिषितमात्र चक्षुश्चन्द्रं गमयति ; न चैकस्मिन् क्षणे तावान् देशो वृत्त्या लङ्घयितुं क्षमः; क्रमे तु प्रतिपरमाण्ववच्छेदं विलम्ब्य गमनात् प्रतीतिरपि विलम्बेत; दूरासन्नग्रहणकालतारतम्यं च स्यात्? मैवम् उदयत्येव सवितरि सकलदिग्व्यापिन्यां प्रभायामिव इन्द्रिय
आनन्ददायिनी जनकत्वाभावाव्यभिचार इत्याशङ्कय परिहरति-नात्र कौन्द्रियैरिति । ग्राहीत्यत्र क्रियासाधारण्येन व्यापारस्पर्शस्य विवक्षितस्य तेष्वपि सत्त्वात् न तैर्व्यभिचार इति भावः । तस्येति-ग्रहणरूपादानक्रियादेः कर्मेन्द्रियादिप्राप्तविषयत्वादित्यर्थः । मनसि व्यभिचारं परिहरति-नच मनसीति । ननु स्वव्यापार(रातिरिक्त)द्वाराऽपि प्राप्तग्राहित्वेऽतिप्रसङ्गः व्यवहितस्यापि(स्याप्येवं)संबन्धात् इत्यस्वरसादाह-यद्वेति । परानुमानानुग्राहकं स्वानुमानप्रतिकूलं प्रागुक्ततर्क क्रमयोगपद्यविकल्पानुपपत्तिरूपमाशङ्कते—ननून्मिषितमात्रमिति । इष्टापत्तिं परिहरति-दूरासन्नेति । तारतम्यं गृह्येत चेदित्यर्थः । तारतम्यमिति-प्रत्ययानुकरणादर्थलाक्षणिकात् प्यञ् । वेगातिशयेन क्रमसंबन्धेन क्रमेण ग्रहणेऽपि शतपत्रशतं मया भिन्नमिति क्रियादिसंयोगात् न शतयोगपद्याभिमानवत् ज्ञाने योगपद्याभिमान इत्यर्थः । नचैवमनेक(नेन)ज्ञानोत्पत्तिः ; इष्टापत्तेः । न च ज्ञानभेद (दा)ग्रहप्रसङ्गः ; भ्रमरूपा(भ्रम इवा)संसाग्रहवादिनः तदग्रहैक