________________
476
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडव्य
तत्वमुक्ताकलापः प्राप्यग्राहीन्द्रियत्वाद्विमतमितरवत् ;
. सर्वार्थसिद्धिः स्थविषया प्राप्तिर्न भवतीत्यतो यद्पग्राहकं यच्छब्दग्राहकमिन्द्रियं तदप्राप्यग्राहि यथा मन इति' तत्र तावत् प्रत्यनुमानमाह-प्राप्येति । ननु गृह्यमाणस्य वर्तमानक्षणस्य पूर्वक्षणवर्तीन्द्रियसंबन्धायोगात् इन्द्रियान्तराणामप्यसंवन्धग्राहकतया साध्यविकलो दृष्टान्तः? मैवम् ; क्षणभङ्गकुसृतेः प्रागेव निरासात् ।
अतिप्रसङ्गोऽसंबन्धग्रहणे स्यात्समं त्विदम् । संबन्धग्रहणेऽपीति न सत् योग्यान्वितग्रहात् ॥ गृहीतस्येष्यते कश्चित्संबन्धो व्यभिचारतः। न संबन्धस्य सर्वस्य ग्रहणं व्यभिचारतः ॥
आनन्ददायिनी तर्कबाधश्चेत्याह - अतिप्रसङ्ग इति । ननु स्वकीयानुमानऽपि संवद्धानां परमाण्वादीनां ग्रहणं स्यादित्यतिप्रसङ्गबाधस्सम इति शङ्कते-- समं त्विदामिति । परमाण्वादीनामिन्द्रियसंबन्धे सत्यपि अयोग्यत्वान्नातिप्रसङ्ग इति वदति-न सत् योग्यान्वितेति । नन्वस्मिन् पक्षे योग्यत्वविशेषणे गौरवमित्यत्राह-गृहतिस्येति । अन्वयव्यतिरेकाभ्यां तत्प्रवेशस्य प्रामाणिकत्वात् न गौरवं दोष इत्यर्थः । गृहीतस्य पदार्थस्य अव्यभिचारेण ग्राहकसंबन्धः कल्प्यते ; तेन सर्वसंबन्ध(संबद्धस्य सर्व)स्यापि ग्रहणं व्यभिचारात् ; तथा च योग्यविषयसंबन्धो ग्राहक इति कल्पने न गौरवं. दोषायेति भावः । ननु कर्मेन्द्रियाणां ज्ञानरूपग्रहण