________________
सरः] मनष्षष्ठत्वेक्तिभावः परोक्तिनिरासः इन्द्रियप्राप्यग्राहित्वानुवादश्च 475
सर्वार्थसिद्धिः यदुक्तम्-'वृत्त्याऽक्ष्यादेदैवीय प्रमितिजनकता' इति, तत्र बारेिवमुच्यते-'वृत्तिप्रसरणे क्रमयोगपद्यविकल्पायोगात् दर
आनन्ददायिनी तमपि मानाभावान्निरस्तम् । तानीन्द्रियाणि प्रतिनियतानि, आमोक्षं आसृष्टेः परकायप्रवेशेऽपि तैस्सह प्रविशति ; मृतशरीरप्रवेशे तथा दर्शनात् 'गृहीत्वैतानि संयाति' इति स्मृतेरन्यदीयकरणस्यान्योपभोगकरणस्वायोगाच्च जीवच्छरीरेऽपि तैस्सह प्रवेश इति । अन्ये तु-प्रकृष्टादृष्टवशादन्यदीयभोगायतनस्यान्यदीयभोगायतनत्ववदन्योपकरणत्वं संभवतीति जीवच्छरीरे तैर्विनाऽपि प्रवेश इति वदन्ति । इन्द्रियेषु प्राकृताप्राकृतविभागान् केचिदाचार्या आहुः । अपरे तु-नित्यमुक्तादिज्ञानस्य करणाधीनत्वाभावात् प्रयोजनशून्याऽप्राकृतन्द्रियक्लप्तिः । 'कप्यास पुण्डरीकमेवमक्षिणी' इत्यादिव्यपदेशस्तु संस्थानमात्राभिप्राय इत्याहुः ॥ ३९ ॥
इन्द्रियाणां सूक्ष्मत्वम्
आक्षेपसंगत्याऽऽह-यदुक्तमित्यादिना। यदिन्द्रियं तदप्राप्यप्रकाशकं यथा मनः रूपादिग्राहकं चक्षुरादिकमपीन्द्रियमित्यनुमानाभिप्रायेणानुग्राहकं तर्कमाह-~-वृत्तिप्रसरणे इति । ननु दूरसन्निकृष्टारिन्द्रियं क्रमेण संबध्यते युगपद्वा ? नाद्यः ? परमाणुदेशक्रमेण संबन्धे विलम्बन ग्रहणप्रसङ्गात् दूरसन्निकृष्टार्थयोयुगपद्हणं न स्यात् । न द्वितीयः । अयोगात् इति, क्रमयोगपद्यविकल्पेन संबन्धस्यायोगात् वृत्तिनिर्गमनकल्पनमयुक्तमित्याह-वृत्तिप्रसरण इति । प्रत्यनुमानं प्रतिपक्षः; चक्षुरिन्द्रियं प्राप्यकारि बाहन्द्रियत्वात् त्वगिन्द्रियवदित्यर्थः । परानुमाने