________________
474
सव्याख्यसर्वार्थीसीद्धसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः 'मनष्षष्ठानि' इत्यादेश्च न्यूनसङ्ख्याव्यवच्छेदमात्रेणाप्युपपत्तेः कर्मेन्द्रियाणां प्रतिशरीरमुत्पत्तिविनाशं व्यष्टिसमष्टिभावरहित्यं च वदन्तः प्रत्युक्ताः ॥ ३९ ॥
॥ इन्द्रियाणां सूक्ष्मत्वम् ॥
- --
आनन्ददायिनी इत्थम् - परमतवत् प्रतिशरीरमुत्पत्तिविनाशाभ्युपगमेऽपि तेषामिन्द्रियत्वं सिध्यतीति 'हस्तादयस्तु स्थितेऽतो नैवम्' इति सूत्रस्य योजनान्तराभिप्रायेणैवमुक्तम् । अत एकादशेन्द्रियाण्यपि शरीरान्तरेष्वप्यनुवर्तन्त इति भाष्यकाराभिप्रायं प्रतीम इति । अन्ये तु-उत्क्रमणशब्दस्य क्रियया पूर्वदेशविभागपूर्वकदेशान्तरसंयोगपरस्य विभुत्वपक्षे देशान्तरसंयोगमात्रे संकोचो वाच्यः ; तत्र मानं नास्तीत्यर्थः । नचानन्त्यश्रुतिरेव मानम् ; आनन्त्यश्रुतेः कालपरिच्छेदाभावस्य उत्पत्तिश्रुतिबाधेन देशपरिच्छेदाभावपरतया संकोचस्यावश्यकत्वात् अनन्तशब्दस्य बहुव्रीहिसमासत्वेन लक्षणयान्यपरत्वस्य स्वतः प्राप्तत्वात् । वाक्यत्वाच्च उत्क्रान्तिश्रुतेर्जघन्यत्वात् न तत्र तद्विरुद्धार्थप्रतिपादनसामर्थ्यमिति न संकोच इत्याहुः । मनष्षष्ठानीति- इन्द्रियाणामेव गतागतश्रवणात् कर्मेन्द्रियाणामिन्द्रियत्वाभावशङ्केत्याहुः । अन्ये तु उत्क्रान्तिप्रकरणे 'मनष्षष्ठानि' इति ज्ञानेन्द्रियाणामेवोक्तेः कर्मेन्द्रियेषु प्रतिशरीरमुत्पत्त्यादिशङ्कां परिहरतिमनष्षष्ठानीति । व्यष्टिसमष्टीति-तत्वोत्पत्तिकाल एव सर्वेषां संघीभूयावस्थितियष्टिः । तत्तच्छरीरेषु पृथगवस्थानं समष्टिः । इदमुपलक्षणम्सौगतकल्पितं स्त्रीन्द्रियपुरुषेन्द्रियादिवि(भ)भाजनं मानाभावान्निरस्तम् । अन्यैर्मनस्तैजसत्वं राजसाहङ्कारजन्यत्वं कर्मेन्द्रियत्वमित्यादि क(ज)ल्पित
---
are