________________
सरः]
वृत्तिस्वरूपं इन्द्रियानन्त्यश्रुतिनिवाहः आकरसम्मतिश्च
+d
आनन्ददायिनी जविन स(तेनैव स)ह गमनम् ; तथाच कथं न संकोचः? अन्यथा सारे 'हस्तादयोऽपीन्द्रियाणि जीवे देहान्तरव(न्तराव)(न्तर) स्थिते उपकारकत्वाविशेषात्' इति वचन विरुध्येत; देहान्तरवस्थितम्य जीवम्योपकारकाणि न तु सहागतानीति प्रतीतेः । तथा भाष्येऽपि न सप्तैवेन्द्रियाणि ; अपि त्वेकादश ; हस्तादीनामपि शरीरेऽवस्थिते जीवे तम्य भोगोपकरणत्वादिति' अत्रापि सहागमानाप्रतीतेविरोधः । तथा दीपे व्यक्तमेवोक्तम्--- 'श्रोत्रार्दानि जीवेन शरीरान्तरगमनेऽपि गच्छन्ति ; वाग्यम्तादीनि कर्मेन्द्रियाणि तु स्थिते शरीरे तेनैव सहोत्पत्तिविनाशयोगीन्युपकारकाणि' इति ; तथा च दपिविरोधश्चेति चेत् ; अत्राहुः-नैव विरोधः 'प्राणगतेश्च' इति सूत्रे — सर्वे प्राणा अनूत्क्रामन्ति' इत्युदाहृतत्वात् । 'सप्तगतेः' इत्याधिकरणे च यानि त्वितराणि विषयाणां ग्राहकत्वेन तेषामौपचारिकः प्राणत्वव्यपदेशः' इति पूर्वपक्षं कृत्वा 'हस्तादयस्तु स्थितेऽतो नैवम्' इति तेषामपि प्राणत्वसमर्थनात् प्राणत्वमिन्द्रियत्वं 'प्राणगतेश्च' इत्यस्यैव समनन्तरे 'अग्नयादिगतिश्रुतेरिति चेन्न भाक्तत्वात्' इति सूत्रे भाष्यम्-'यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वाचं प्राणः चक्षुरादित्यं इत्यादिना प्राणानां जीवमरणकाले अग्नयादिष्वप्ययश्रवणात् न तेषां जीवेन सह गमनमिति गतिश्रुतिरन्यथा नेयेति
चेन्न ; भाक्तत्वादग्नयादिष्वप्ययश्रवणस्य' इत्यादिकम् । अतः कर्मेन्द्रियस्य वाचोऽत्र गतिरभ्युपेतेति तदन्येषामपि सममेव । तथा सारेऽप्युक्तम्-'सप्तानां गतिश्रवणं विशेषणं च तेषां प्राधान्यात्' इति । दीपेऽपि 'सप्तानामेव गतिश्रवणं योगकाले विशेषणं . च ज्ञानेन्द्रियाणां मनसः तत्प्रवृत्तिरूपबुद्धेश्च प्राधान्यात् इत्यादि । न च आहङ्कारिकेन्द्रियवादिनः प्रतिशरीरमिन्द्रियोत्पत्तिलयावुपपद्यते ; पाण्याद्यधिष्ठानानि त्वनिन्द्रियाणीति तदुत्पत्तिलयोपपत्तिः । कथं तर्हि श्रोत्रादीनीत्यादेर्निर्वाहः!