________________
[जडद्रव्य
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
भेदानां कथम् ? न कथञ्चिदिति चेत्; तर्हि अनेकेन्द्रियवादः । पुचैकत्वमस्त्विति चेत्; किमतः ? ग्राहकांशानां मिथो भिन्नत्वात् ।
462
नच तत्ता तद्न्यस्य नच तस्य ततोऽन्यता । सत्ता जैन वद्वाच्या सर्वमानविरोधतः ॥ स्पर्शनस्य पुञ्जस्य भागाश्चक्षुरादय इत्यप्यसत्; नियामकाभावात् । अत्र अवयविसामान्यसादृश्यापोहादिभिरैक्यकल्पने अपसिद्धान्तातिप्रसङ्गौ । देहातिरिक्तेन्द्रियकल्पनं चास्मिन् पक्षे अपार्थम् । न ह्यत्र दृष्टहानिरदृष्टकल्पना वा ! कुतस्तद्वैौरवम्?
आनन्ददायिनी
तत्प्रदेशावयवानां कथमैक्यमित्यर्थः । तर्हीति – तत्प्रदेशानां भिन्नानामिन्द्रियत्वादिति भावः । किमत इति — ग्राहकांशै क्यानुपपादनादिति भावः । ननु प्रदेशानां मिथो भिन्नत्वेऽपि पुत्रैक्यादैक्यमस्तु इति चेत् तत्राह - नचेति । तदन्यस्य - तद्भिन्नस्य तत्ता - तत्तादात्म्यं, तदात्मनो वा तद्भिन्नत्वं न संभवतीत्यर्थः । ननु भिन्नस्याप्यभिन्नताऽस्तु ' स्यादस्ति' इति न्यायेनेत्यत्राह---सत्त्वाद्यैरिति । तथा सति सर्वमानविरोधात् जैनमतवषणवचनार्हमित्यर्थः । पुत्रैक्यमपि नास्तीत्याह – स्पर्शनेति । ननु तव स्पर्शनेन्द्रिय (वि) भा (गभेदेऽपि ) गादेरपि स्पर्शनेन्द्रियावयविवत् ज्वालानां भेदेऽपि सामान्यसादृश्यापोहादिनैक्यवदैक्यमस्त्विति चेत्; अत्राह — अवयवीति । अवयविसामान्यपक्षेऽपसिद्धान्तो बौद्धस्य : तदभावात्सामान्यादिषु त्रिष्वतिप्रसङ्गः । एतादृशैव कल्पनं च (कल्पनस्य च न किंचित्प्रयोजनं भेदाविरोधित्वात् ) नेन्द्रियभेदविरोधीत्यपि
;