________________
सरः एकदेहेकेन्द्रियवादे श्रुत्यावाधः श्रौतेगौरवस्यादोपता सर्वदेहेकेन्द्रियापतिश्च +61
तत्वमुक्ताकलापः भवेदागमेनैव वाधः । नो चेत्स्यादेहभेदप्रतिनियत
सर्वार्थसिद्धिः न्तरादौद्भव्यसूचनाय प्राथम्योक्तः। आगमेनव-धर्मिग्राहकेणैवेत्यर्थः। गौरवदोषश्च क्लाप्तिपक्षे वक्तव्यःनास्मत्पक्ष इति चाभिप्रेतम्। इन्द्रियक्लप्तिः प्रागेव निरस्ता । अत्र तदेकत्वक्लप्तावतिप्रसङ्गमाह-नो चेदिति । यथैकमेवाकाशं तत्तत्पुरुषादृष्टोपार्जितकर्णशष्कुल्यवच्छेदभेदैः प्रतिपुरुषं व्यवस्थितोपकारकामति वैशेपिकादिभिः कल्प्यते तथा त्वयाऽपि एकमेवेन्द्रियं तत्तद्भोगायतनभेदनियतशक्तिकं सर्वोपकारकं कल्प्यमिति भावः। नचैवमस्त्विति वाच्यम् । अपसिद्धान्तात् । ननु नानादेहमध्येषु वसतः कथमेकत्वमिति चेत्, चक्षुर्गोळकाधवच्छिन्नानां इन्द्रियप्रदेश
आनन्ददायिनी रादिति-नो चेदित्यादिदूषणान्तरादित्यर्थः । भिन्नेन्द्रियक्लप्तिपक्षे तदुक्तं परिहरति--गौरवदोषश्चेति । इन्द्रियक्लप्तिरिति-कल्प्यत्वे गोळकातिरिक्तं न सिध्येदित्यादिना निरस्तेत्यर्थः । अतिप्रसङ्गमेवोपपादयति-- यथैकमेवाकाशमिति । तत्तद्भोगायतनं-तत्तच्छरीरं तत्तदिन्द्रियाधिष्ठानं वा । अपसिद्धान्तादिति -- 'प्रतिपुरुषभिन्नं तदायतनसंज्ञितम् ' इत्युक्तेरिति भावः । नानादेहमध्येष्विति-नानादेशस्थदेहान्तराळदेशेवित्यर्थः । ननु नानादेहमध्येषु सत्त्वमसिद्धं । नचानुपलम्भस्साधकः योग्यानुपलम्भाभावात् ; न च मध्यदेशेऽपि तत्सत्त्वे कार्यप्रसङ्गः भोगायतनावच्छेदेनैव तदनुकूलशक्तिनैयत्यादिति परिहारे सत्येव प्रतिबन्छा समाधत्ते-चक्षुर्गोळकेति । चक्षुश्श्रोत्रगोळकमध्ये तदवयवानामभावात्